________________
पञ्चविंशोऽध्यायः ।
विद्याधर उवाच ।
यथा सा सर्वगा देवी सर्व्वेषाञ्च फलप्रदा । तथाहं श्रोतुमिच्छामि वसोर्द्वारां सुविस्तराम् ॥१॥
अगस्त्य उवाच ।
ब्रह्मणा या समाख्याता देवराजस्य पृच्छतः । विधिश्च पापहा श्रोतुः शृणुष्वावहितो मम ॥२॥ वसोर्धारा स्थिता देवी सर्व्वकाम प्रदायिका । तथा ते कथयिष्यामि शृणु पुण्यविवृद्धये ॥३॥ सर्वेषामेव' देवानां कथिता देवी चोत्तमा । विशेषेण तु वह्निस्था आयुरारोग्यदा मता ॥४॥ विजयं भूमिलाभन्तु प्रियत्वं सर्व्वमानवान् । विद्या- सौभाग्य पुत्रादि कुण्डस्था संप्रयच्छति ॥५॥ तस्मान् नृपेण भूत्यर्थे वसोद्धराश्रिता शिवा । पूजनीया यथा शक्त्या चण्डी ३ कामफलप्रदा ॥ ६ ॥ रुद्रादित्या ग्रहा विष्णुर्वयं यक्षाः सकिन्नराः । हुताशनमुखाः सर्व्वे दृष्टादृष्ट फल प्रदाः ॥७॥ गोदानं भूदानञ्च रत्नं सर्पिस्तिलानि च । दानानि महतान्याहुस्तेषां धारा विशिष्यते ॥८॥ विप्राणां कोटिकोटीनां भोजयित्वा तु यत् फलम् । तद्वृत्त- निरतैः शान्तैरेकेनापि च तद्भवेत् ॥६॥ व्यतीपाते न सन्देहः स च सूक्ष्मः प्रकीर्तितः । प्रयने विषुवच्चैव दिनच्छिद्रं तथैव च ॥ १० ॥ gotri दानं होमानां धारायां लभते नृपः । तस्मान् नृपेण वृद्ध्यर्थं दृष्ट्वादृष्ट जिगीषुणा ॥ ११ ॥ वसोर्द्धारा प्रकर्त्तव्या सर्वकामं जयावहा । समं वा अथवार्द्ध वा ऋतुमासार्द्धवासरम् ॥१२॥ कृत्वा विभवरूपेण शाश्वतं लभते फलम् । एकाहमपि यो देवों कल्पयित्वा हुताशने ॥१३॥ पातयेत् सर्पिषो धारां स लभतेप्सितं फलम् । देवी मातृ समीपस्थं शिव-विष्णु-समीपगम् ॥१४॥
१. सर्वेषां ख ।
४. श्रयनं क ग |
७. अभेदोप्सितं क ग ।
२. कथिते यं क ।
५. लभ्यते क ग ।
३. चाश्रु ग ।
६. सम क ।