SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ चतुर्विशोऽध्यायः सम्पूर्णे चार्द्धरात्रे तु उदयास्तमनेऽपि च । मानार्द्ध भास्करं पुण्यमपूर्णे शर्वरीदिने' ॥१४॥ सम्पूर्ण उभयो यमविवेकेऽपरेहनिः । षडशीतिमुखेऽतीते वृत्ते च विषुवद् वये ॥१५॥ भविष्यत्ययते पुण्यमतीते चोत्तरायणे । प्रादौ पुण्यं विजानीयाद् यदा भिन्नातिथिर्भवेत् ॥१६॥ अर्द्धरात्रे व्यतीते तु विज्ञ या चापरेऽहनि । मन्दा विप्रजने शस्ता मन्दाकिन्यस्तु राजनि ॥१७॥ ध्वांक्षी वैश्येषु विज्ञ या घोरशूद्र शुभावहा । महोदरी तु चौराणां शोण्डिकानां जयावहा ॥१८॥ चाण्डाल-पुक्वशानान्तु ये चान्ये क्रूरकर्मिणः । सर्वेषां कारुकाणाञ्च मिश्रिता धृतिद्धिनी ॥१६॥ नृपान् पीडति पूर्वाह्न मध्याह्ने च द्विजोत्तमान् । अपराह्न तु सा वैश्याञ्छू द्रानस्तमने रवेः ।२०। पिशाचांश्च प्रदोषे तु अर्द्ध रात्र तु राक्षसान् । अर्द्धरात्र व्यतीते तु पीड्यन्ते नटनर्तकीः६ ॥२१॥ उषःकाले तु संक्रान्तौ हन्ति गो स्वामिनो जनान् । हन्ति प्रवजितान् सर्वान् सन्ध्याकाले न संशयः ॥२२॥ एतत् स्थूल विभागन्तु भक्ति कामस्य कीर्तितम् । परमार्थेन या संख्या कथयामि नृपोत्तम ॥२३॥ सुस्थे नरे सुखासीने यावत् स्पन्दति लोचनम् । तस्य त्रिंशत्तमं भागं तत्परं परिकीर्तितम् ॥२४॥ तत् पराच्छतभागं तु त्रुटिरित्यभिधीयते । त्रुट्याः सहस्रभागाद्ध तत्कालं रवि-संक्रमे ॥२५॥ तत् कालेषु द्रवीभूतं त्रैलोक्यं सचराचरम् । व्यतीपातेऽपि एवं स्याद् भवेत् पुण्यं समाधिकम् ॥२६॥ तत्र ब्रह्मापि सन्दिग्धमुवाच सुरसत्तम । दानाध्ययनजापादि विशिष्टं घोर' होमतः ॥२७॥ वसोर्धारासु लभ्येत अन्यथा न कथञ्चन । देवीकालगता वत्स यथा सूक्ष्म प्रकीर्तिता ॥२८॥ साधकी सर्वकामारणां महाभय विनाशिनी । कथिता ते मता सा तु किं भूयः परिपृच्छसि ॥२६॥ इति श्री देवीपुराणे संक्रान्तिविधिर्नाम चतुविशोऽध्यायः । १. दले क। ३. ग पुस्तके नास्ति। ५. पीडयन्ति क। २. ग पुस्तके नास्ति । ४. शुभप्रदा क ग। ६. नन्तका क ग। ८. होत्र ख। ७. अत्र क। ६. पाद्य देवीपुराणे संकान्तिविधि क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy