SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशोऽध्यायः । ब्रह्मोवाच । समयेन ऋतुमास पक्षाहादि क्रमेन तु । सूक्ष्म- स्थूल विभागेन देवी सर्व्वगता विभो ॥१॥ द्वादशैव समाख्याता समा संक्रान्तिकल्पनाः । सप्तधा सा तु बोद्धव्या एकेकैव यथा शृणु ॥ २ ॥ मन्दा मन्दाकिनी ध्वांक्षी घोरा' चैव महोदरी । राक्षसी मिश्रिता प्रोक्ता संक्रान्तिः सप्तधा नृप ॥ ३ ॥ मन्दा ध्रुवेषु विज्ञेया मृदौ मन्दाकिनी तथा । क्षिप्र ध्वाङ्क्षीं विजानीयादुग्रैर्घोरा प्रकीर्तिता ॥४॥ चरैर्महोदरी ज्ञेया क्रूरॠ क्षैस्तु राक्षसी । मिश्रिता चैव निर्दिष्टा मिश्रितास्तु संक्रमे ॥५॥ त्रिचतुः पञ्च सप्ताष्ट नव द्वादशमेव च । क्रमेण घटिता ह्य ेतास्तत्पुष्यं पारमार्थिकम् ॥६॥ अतीतानागतान् भोगान् श्राद्यः पंचदश स्मृताः । सान्निध्यं भवते तत्र ग्रहाणां संक्रमे रवौर ॥७॥ व्यवहारो भवेल्लोके चन्द्रसूर्योपलक्षितः । कालोऽपि कलते सर्व्वं ब्रह्माद्यं सचराचरम् ॥८॥ पुण्य-पाप-विभागेन फलं देवी प्रयच्छति । एकधापि कृतं तस्मिन् कोटि कोटि गुणं भवेत् ॥६॥ धर्मो विवर्द्धते ह्या राज्यं पुत्र सुखानि च । . अधर्म्म व्याधि शोकादि विषुवायन सन्निधौ ॥१०॥ विषुवेषु च यज्जतं दत्तं भवति चाक्षयम् । एवं विष्णुपदे चैव षडशीति मुखेषु च ॥११॥ विकल्प मे निगदतः शृणु । यावद्विशकला भुंक्त तत् पुण्यमुत्तरायणे ॥१२॥ निरंशे भास्करे दृष्टे दिनान्ते दक्षिणायने । श्रर्द्धरात्रे तु सम्पूर्णे दिवा पुण्यमनागतम् ॥१३॥ १. क्षोभ क ग । ४. ह्याधिक । २. ग्रहाणां पातुमेव वै ग । ५. कल्पो क । ३. सुखादयः क ग । ६. युक्ता क ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy