________________
द्वाविंशोऽध्यायः ।
सोपहारसम्पन्नोवस्त्र-रत्न-फलादिभिः । कारयेद्रथदोलादि पूजाञ्च बलि वेदिकाम्' ॥११॥
पुष्पादि द्रोण-विल्वाम्र-जाती-पुन्नाग-चम्पकैः ।
विचित्रां रचयेत् पूजामष्टम्यामुपवासयेत् ॥१२॥ दुर्गाग्रतो जपेन्मन्त्रमेकचित्तः सुभावितः । तदद्धयामिनी शेषे विजयार्थं नृपोत्तमैः ॥१३॥ सर्बाङ्ग लक्षणोपेतं गन्ध पुष्प सच्चितम् । विधिवत कालिकालोति जप्त्वा खड्गेन घातयेत्।१४। तस्योत्थं रुधिरं मासं गृहित्वा पूतनादिषु । नैऋताय प्रदातव्यं महाकौशिकमन्त्रितम् ॥१५॥
तस्याग्रतो नृपः स्नायाच्छ कृत्वा तु पिष्टजम् ।
खड्गेन घातयित्वा तु दद्यात् स्कन्दविशाखयोः ॥१६॥ ततो देवीं स्नापयेत् प्राज्ञः क्षीरसपिर्जलादिभिः । कुकुमागुरुकर्पूर चन्दनैश्चापि धूपयेत् ॥१७॥ हेमादि पुष्परत्नानि वासांसि अहतानि च । निवेद्य च प्रभूतं तु देयं देव्याः सुभावितैः ॥१८॥ देवी भक्ताश्च पूज्यंते कन्यकाः प्रमदादि च । द्विजा दीनानुपासन्नान् अन्नदानेन प्रीणयेत् १६॥ नन्दा भक्ता नरा येतु महाव्रतधराश्च ये । पूजयेत् तान् विशेषेण यस्मात् तद् पडिका ॥२०॥ मातराणाञ्च देवीनां पूजा कार्या तदानिशि। ध्वजछत्र-पताकादिमुच्छ्रयेचच्चिका गृहे ॥२१॥ रथ यात्रा बलिक्षेपं पट्टवाद्य वराकुलम् । कारयेत् तुष्यते येन देवी वस्त्र' निपातनैः ॥२२॥ अश्वमेधमवाप्नोति भक्तिनां'१ सुरासत्तम । महानवम्यां पूजेयं सर्वकामप्रदायिका. ॥२३॥ सर्वेषु सर्व१ वर्णेषु तव भक्त्या प्रकीर्तिता। कृत्वाप्नोति यशो राज्यं पुत्रायुर्धन सम्पदः ॥२४॥
इति श्री देवीपुराणे देव्यवतारे नवमी कल्पो नाम द्वाविंशोऽध्यायः ॥ .
.
कग।
१. देविकाम् क ग। २. पुष्पश्च- क । ३. पंचाद्वङ्ग, क ग। ४. धूप कग ५. पिष्टजम् क ग। ६. रत्न पुष्पाणि का ७. द्विजादीनांधपाषंडा कग ।
८. नरा ये च का ६. मम्बिकां क ग । १०. पशु क ग ।
११. भक्तितः क ग। १२. वत्स- कग।