SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ त्रयोविंशोऽध्याय: । ब्रह्माना ब्रह्मोवाच । क्षीराशी नन्दिका'रभ्य देव्या भक्तिरतो नृपः । शाक यावक एकाशी प्रातः स्नायी शिवारतः ॥१॥ पूजयेत् तिलहोमस्तु दधि क्षीरघृतादिभिः । कार्य्यन्तु देवीमन्त्रेण श्रृणु पूजा फलं हरे ॥२॥ महापातकसंयुक्तो युक्तो वा सर्वपातकैः । मुच्यते नात्र सन्देहो यस्मात् सर्वगता शिवा ॥३॥ अन्यो वा भावनायुक्तो अनेन विधिना शिवाम् । स्वयं वा अन्यतो वापि पूजयेत् पूजापयेत वा ॥४॥ न तस्य भवति व्याधिन च शत्रुकृतं भयम् । नोत्पातग्रहदुःखं वा न च राष्ट्र विनश्यति ॥५॥ सदा सुभाव सम्पन्ना ऋतवः शुभदा घनाः । निष्पत्तिः शस्यजातानां तस्करा न भवन्ति च ॥६॥ प्रभूतपयसो गावो ब्राह्मणाः स्वक्रियापराः । स्त्रियः पतिव्रताः सर्वा निवृत्त-वैरिणो नृपाः ॥७॥ फल-पुष्पवती देवी वनस्पतिः महामतिः । भवते नात्र सन्देहश्चच्चिकाविधिपूजनात् ॥८॥ जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोस्तुते ॥६॥ अनेनैव तु मन्त्रेण जपहोमन्तु कारयेत । प्रातः संस्मरिता वत्स महिषध्नी प्रपूजिता ॥१०॥ .. अघं नाशयते क्षिप्रं यथा सूर्योदये तमः ॥११॥ सिंहारूढा ध्वजे यस्य नृपस्य रिपुहा उमा । द्वारस्था पूज्यते वत्स न तस्य रिपुजं भयम् ॥१२॥ कपिसंस्था महामाया सर्वशत्रु विनाशिनी । वृषे यथेप्सितं दद्यात्कलशे श्रेयमुत्तमम् ॥१३॥ हंसे विद्यार्थ कामांस्तु वहिणे सुतमिष्टदा । गरुत्मगा महामाया सर्वरोगविनाशिनी ॥१४॥ महिषस्था महामारी शमते ध्वजसंस्थिता । करिस्था सर्वकार्येषु नृपः कार्या त्रिशूलिनी ॥१५॥ २. उपपातकः क ग । ३. स्वभाव कग। १. कात्ति का क ग । ४. धात्री शस्यानि रसवंति च ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy