________________
द्वाविंशोsध्यायः।
ब्रह्मोवाच । चन्द्रप्रभा गता यत्र प्रास्ते घोरः प्रतापवान् । कैलाशं परमं स्थानं नवमे-घशशि-प्रभा' ॥१॥ एवं महाबलं शक्र पुरा देवारिकण्टकम् । हत्वा देवी वरं प्रादाद् विष्ण्वादीनां प्रतोषिता ॥२॥
___ इन्द्र उवाच । आश्विने घातिते घोरे नवम्यां प्रतिवत्सरम् । श्रोतुमिच्छाम्यहं तात उपवास व्रतादिकम् ॥३॥
__ ब्रह्मोवाच। श्रृणु शक्र प्रवक्ष्यामि यथा त्वं परिपृच्छसि । महा-सिद्धि-प्रदं पुण्यं सर्वशत्रु-निवहर्णम् ॥४॥ सर्व लोकोपकारार्थ विशेषादृषिवृत्तिषु । कर्त्तव्यं ब्रह्मणाद्य श्च क्षत्रियभूमि पालकैः ।
गोधनार्थ विशैर्वत्स शूद्र: पुत्रसुखाथिभिः ॥५॥ महाव्रतं महापुण्यं शङ्कराय रनुष्ठितम् । कर्तव्यं देवराजेन्द्र देवी-भक्ति-समन्वितैः ॥६॥
कन्या संस्थे रवौ शक्र शुक्लादारभ्य नन्दिकाम् ।
अयाची त्वथ एकाशो नक्ताशी अथवा घृतम् ॥७॥ प्रातः स्नायी जितद्वन्द्वस्त्रिकालं शिवपूजकः । जपहोमसमायुक्तः कन्यकां भोजयेत् सदा ॥८॥ अष्टभ्यां नवगेहानि दारूजानि शुभानि च । एकं वा वित्ताभावेन कारयेत् सुरसत्तम ॥६॥ तस्मिन् देवी प्रकर्तव्या हैमा वा राजतापि वा। मृद्वार्थी लक्षणोपेता खग शूलेऽथ पूजयेत् ॥१०॥
४. आश्विनस्य सिते पक्षे क ।
१. यह नहीं है क । २. कटकम् । क ३. दधुः कग। ५. धन्यं क ग। ६. क्षत्रियोंक क। ७. सौभाग्यार्थं स्त्रिया कार्यमन्यैश्च धनकाक्षिभिः क ग। ८. कन्यकां कग ।
६. अथ क ।
१० द्यदः कग ।