SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ एकविंशोऽध्यायः । ब्रह्मोवाच । हते घोरे महावीरे सुरासुरभयङ्करे । देवीमुपासका देवाः प्रभूता राक्षसास्तथा ॥ १ ॥ आता घातितं दृष्ट्वा महिषं तं सुदुर्जयम् । ब्रह्म-विष्णु- सुरेशाना- इन्द्र चन्द्र- यमानिलाः ॥२॥ आदित्या वसवः साध्या ग्रहा नागाश्च गुह्यकाः । समेताः सर्व्व 'देवास्ते देवीं भक्त्या तुतोषिरे ॥३॥ वरञ्च सर्व्वलोकानां प्रददौ भयनाशिनी । बलिञ्च दद्य भूतानां महिषाजामिषेण च ॥४॥ पुरेषु शङ्खभेर्यश्च शतशोऽथ सहस्रशः । हता दुन्दुभिनादाश्च पटुशब्दाः समर्द्दलाः ॥५॥ पताका ध्वज - छत्रादि-घण्टा चामर शोभितम् । तद्दिनं कारयाञ्चक्र देवीभक्ताः सुरोत्तमाः ॥६॥ एवं तस्मिन् दिने वत्स भूतप्र ेत समाकुलम् । कृतवान् सर्व्वदेवैश्च पूजाश्च शाश्वतीर्महान् ॥७॥ जलदान्ते श्राविने मासि महिषाजि - निर्वाहणीम । देवीं सम्पूजयित्वा तु अष्टमीष्वद्ध रात्रिषु || घातयन्ति सदा भक्त्या ते भवन्ति महाबलाः । बलिञ्च ये प्रयच्छन्ति सर्व्वभूत- विनाशकम् ॥६॥ तेषान्तु तुष्यते देवी यावत् कल्पन्तु शाङ्करी । क्रीडते विविधैर्भोगं देवलोके सुदुर्लभे ॥१०॥ यो व्याधयस्तेषां न च शत्रु-भयं भवेत् । न च देवा ग्रहादित्या नासुरा न पन्नगाः ॥ ११ ॥ वाधयन्ति सुराध्यक्ष देवीपादौ समाश्रीतान् । यावद् भूर्वाय्वाकाशं जलं वह्निशशिग्रहाः ॥१२॥ तावच्च चण्डिका पूजा 'भविष्यती सदा भुविः । शरत् काले विशेषेण श्रश्विने ह्यष्टमीषु च ॥ १३॥ महाशब्दो नवम्याञ्च लोके ख्यातिं गमिष्यति । एतत् ते देवराजेन्द्र स्वर्गवासफलप्रदम् ॥१४॥ परस्पर विभागन्तु क्रियायोगेन कीर्तितम् ॥१५॥ इति श्री देवीपुराणे देव्यवतारे नवमीक्रियासूचनं नामैकविंशोऽध्यायः । १. समेत्य सर्व क ग । ५. ग पुस्तके नास्ति । ८. कलयतु शांकरं क ० २. कृता क । ६. अर्द्ध राष्टमी मखे क । ६. पीडयन्ति क । ३. व्रताश्च क । ४. महा शाश्वतीः क ग । ७. पशून् भक्ष्यान् । १०. प्रावृट् क ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy