________________
देवीपुराणम्
नखप्रहारैर्महिषस्य काये असृक् प्रवाहौध-विनिर्गता ये। दिवौकसैस्तैः सहसा प्रदिष्टां कुरुण्ड' माला इव वध्य-काये ॥२७॥ तद् घोर-शृङ्गाग्र-प्रहार-भिन्नो हरिननाद सहसा च रिवन्नः । संकोपितं दैत्य-निपात-घातर्हरिः प्रजध्ने नरव-दंष्ट्र-घातैः ॥२८॥ देव्याः शिरे मुद्गरपाशघातात् वहून मुमोच शर-दण्ड-घातान् । तथापि नो वाधयितुं स शक्तः पञ्चाननः शृङ्गहतः पपात ॥२६॥ तं घोरघाताहत-सिंह-राजं भूमौ गतं घोर भटैः प्रहट्वा । ते दानवाः क्रोधवशं प्रपन्ना देवीतनावस्त्रवराणि चिक्षिपुः ॥३०॥ पृष्ट्वा तु देवी तैः पीड़िताङ्गी निवारयेताम् विजया जया च । निवारिते घोरबले समस्ते मायासमुत्थे तमपायरुपे ॥३१॥ देवो कृपारणेन तमापतन्तं चिच्छेद ग्रीवां धरणी निपात्य । दृष्ट वा सुरास्तं निहतं सुरारि पुष्पाणि देवो चरणेषु चिक्षिपुः ॥३२॥ तस्य शिरश्छेद-समुद्भवन्तं रक्ताननं रक्तविलोचनान्तम् । क्रुद्धाननं मुक्त-कचं सुघोरं कृपाणपाणि शत-घोर-कारम् ॥३३॥ देव्याननं तर्जन गजमानं शङ्कावहं निर्भय देवतानाम् ॥ तं दृष्टमात्रं सहसा तु देवी पाशेन संपाश्य मुमोच नैनं ॥३४॥ शूलेन मूनि सहसा विभिन्नं तं मुक्तवीर मपतद् गृहीतम् ॥ ऋक्षाधिपे चास्तगतऽसुरेशे दैत्याधिपाः प्रेतपथं प्रजग्मुः ॥३५॥ इति श्री देवी पुराणे देव्यवतारे घोरवधो नाम विंशोऽध्यायः ।
१. कूरुण्ट क ग। २. तं क। ४. कंतच कान् क। ५. असुरारिण चिक्षियुः क ग। ८. इत्याद्य देव्यवतारे घोरवधः समाप्तः क ग ।
३. सहस च खिन्नः क ग । ६. निष्पीडितांगो क ग । ७. जीवं क ग ।