________________
विंशोऽध्यायः ।
ब्रह्मोवाच ।
यां यां चकार दैत्येन्द्रो मायां मायाविदां वरः । तां तां निकृन्तते देवी नयं देवो यथा गुणः ॥१॥ शक्ति-त्रय-समोपेतः पौरुषेण समन्वितः । बल-वाहनयुक्तोऽपि दैवेनैकेन पीडितः ' ॥२॥
शक्र उवाच ।
दा हि बलवान् देव एकः शत्रुवलं जयेत् । तदा गजाश्वयोधानां व्यर्थता ह्यनुमीयते ॥३॥ न धर्मो नापि चाधम्र्मो न मन्त्री न पुरोहितः । दैव एव हि कर्त्ता तु शुभाशुभफलप्रवः ॥४॥ अश्वमेधादि यज्ञा ये ब्रह्महत्यादि पातकाः । दैव एव हि कर्त्ता च न पुण्यं न च दोषभाक् ॥५॥ भिषक् सम्वत्सरामाद्यर्न हि किञ्चित् प्रयोजनम् ।
कृषि कर्मानु वार्ता च दैवं सर्व्वं करोति हि ॥ ६॥
यदेतत् कथनारम्भे देव्या श्राद्यवतारणम् । तत करोति विधिर्ब्रह्मन् किमेतद् भवता कृतम् ॥७॥
श्रनेनैवानुमानेन शुश्रूषा विनयेन हि ।
अगस्त्य उवाच ।
एवं पूर्वं भवानासीत् चक्र ब्रह्मस्य देविके ॥ ८ ॥ पौरुषस्यानुसन्धाय यतते कमलोद्भवः । ब्रह्मोवाच ।
देवो हि सर्व्व-शक्तीनां बलानां परमं बलम् ॥e॥
चिन्त्याः अन्य पदार्थाः स्युर्देवं केनापि चिन्त्यताम् । देवानुकूलता शक्र शक्ति पौरुष चेष्टितम् ॥१०॥
१. पातितः क ग । ४. सर्व्वे क ग । -
२. ध्यनुमीयतो ख. ।
३ संवत्सरा क ।