________________
एकोनविंशोऽध्यायः ।
ब्रह्मोवाच । हते तस्मिन् महादैत्ये' दानवस्य वरूथिनी । नलिनी हिमपातेन शमितेव विभाव्यते ॥१॥ सुषेणे निहते शक्र दैतेयः सुरमई कः । सुषेण-सदृशान् योधान् मायोत्थां चक्रिरे बहून् ॥२॥ अजा-विवदनान् घोरान् सिंह-शूकर प्राननान् । गजाश्वरथमारूढान् चर्मखड्गकरोद्यतान् ॥३॥ ते सर्वे अजितां योद्ध महाबल-पराक्रमाः । मकरस्थां पाशहस्तां दन्डांकुशकरोद्यताम् ॥४॥
ते दृष्ट्वा अजितां सर्वे न विभ्यथु मनागपि ।
अथ तैः कलकलारावं कृत्वा देवी विचेष्टिताम् ॥५॥ दशधा शतधा शक्र तथा ह्मयुत-कोटिधा । देव्या शरासनं चकं चिच्छेदुर्दनुसत्तमाः ॥६॥ विमोच' शर जालानि देवी सर्वे ह्मपद्र ता । सम्पीडितवलान् दृष्ट्वा तृतीयाश्चापराजिताम् ॥७॥ शमितु शरवर्षेण दानवानां भयङ्करीम् । घोरमायासमुत्थानां वाहिनी यमपन्थगा ॥८॥ प्रयाता दानवी शक्र-गजाश्व-भट पत्तिषु । नहि संख्या तदा ह्यासीत् द्विविधासु बलासु च ॥६॥ हतसेनस्तदा घोरो बहुमायो पुरन्दरः । इन्द्र-चन्द्रार्क-विष्णूनां रूपाणि बहुधासृजत् ॥१०॥ चन्द्र चक्रण सम्पीड्य विष्णुमिन्द्र तथैव च । देवीनां सम्मुखो देव्या द्वन्द्वयुद्धेन प्रेषयेत् ॥१२॥ ता मायां घोरजां देव्या जयापाशेन पाशिताः । निकृत्याशिव पद्मानि गजैरिव महाहृदे ॥१२॥
इति श्री देवीपुराणे मायासैन्यवधो नाम एकोनविंशोऽध्यायः ॥
१, महामाये क महामात्ये ग
२. तथा ग।
३. मुमोच क ग।
.
६. शर क।
४. शमेतुम् क ग।
५. प्रेषितां क ग। ७. प्राये देव्यवतारे मायासन्यवधः क ग ।