SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ अष्टादशोऽध्यायः। ब्रह्मोवाच । स्तुता' ह्यवं पुरा देवी देवदेवेन शम्भुना । हिताय विष्णुशक्राणामन्येषामपि देवताम् ॥१॥ तन्माया तमसाच्छन्नमशेषं सचराचरम् । उद्योतितं' क्षणेनैव भानुना तद्यथा' दिवम् ॥२॥ प्रवृद्धि शक्ति संरम्भाः सर्वे देवाः सवासवाः । ववर्ष पुष्पमालाभिर्भवान्याश्चरणाम्बुजे ॥३॥ अथ तं दनुपति' घोरं प्रावृट्काल घनोपमम् । मर्दयन् विहसन् ६ देवी सुतीक्ष्णैनिशितैः शरै ॥४॥ अदिता शरवर्षेण दानवस्य तु वाहिनी । देवी-कर-विमुक्त न लाघवेन बलेन च ॥५॥ निश्चेष्टं दानवं सैन्यं तदा ह्यासीत् पुरन्दर । एवं कात्यायनी वाणैनिष्प्रभं घोरजं बलम् ॥६॥ चक्राविद्धं न लक्ष्येत् दानवैविगतौजसः । सुषेणस्तु तदा क्रुद्धो मन्युमास्थाय वासव ॥७॥ मायागज-समूहन्तु चकार मदविह्वलम् । तान्नागान्मदगन्ध्यादैर्वलि'वृन्दैनिषेविताम् ॥८॥ चोदयामास दिव्याया जयायामसुरोत्तमः । जयापि दानवं वीक्ष्य सिंहमारोह भास्वरम् ॥६॥ गजान् विमई येत् सर्वान् विशीर्णा इव दिग्गजाः । गजसैन्ये हते शक्र दानवः सुरदर्पहा ॥१०॥ प्रादाय तरसा खग जयायाः सिंहघातकम् । अथ सिंहे हते देवी कौशिकोपरिसंस्थिता ॥११॥ सुषेणस्य शिरश्छेदं रथाङ्गन तु वासव॥१२॥ इति श्री देवीपुराणे सुषेणवधो नामाष्टादशोऽध्यायः' । १. स्तना क। ४. प्रवुद्ध क ग । ७. स्व क। १०. पाद्य देव्यत्रतारे सुषेणवधः क ग। २. उद्योतयन् क। ५. तं तत्तु राति क। ८. मदगंधादैः ख। ३. तु क । ६. अईयन् विसहं क। ६. भासुरम् ग ।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy