________________
सप्तदशोऽध्यायः
ये पठन्ति' सदा भक्त्या तेषु वक्षाम्यहं शृणु । वाजपेयाश्वमेधाग्निष्टोम' गोदानादिकं तथा ॥४५॥
ऋक् सोपानादिकं यज्ञ पुण्यं लभ्यते तथा भूतले यानि तीर्थानि चान्यानि वा। तेषु तीर्थेषु देवार्चन-स्नान-होमोपवास-स्तुति-दानं पुण्यं व्रतं सर्वमेतत् फलम् ॥४६॥
यः पठेत् दण्डकै दण्डकेनापि सिद्धो दिवि क्रीडते ब्रह्माविष्ण्विन्द्र लोकोत्तमैः ।
दिव्ययानमहाकल्पकोटि सहस्राणि सिद्धवतः साधकः ॥४७॥ तर विनिपातकाले व्रजत्यग्नि कालाग्नि रुद्र शतं नारकं विशतिश्चाष्ट कोटि समेतम् । तथा भूभूवः स्वमहर्जनस्तपः सत्यं लोकान्तिक ब्रह्मणोंऽडं विनिर्मद्य रुद्रान् ॥४८॥
द्वि पञ्चाशत् संख्यास्तथा तोय-तेजो-नीलाकाश गुह्याष्टकम् । अष्टषष्ठिमतिक्रम्यत् प्राकृतं पौरुषं नियतिकालं समग्रं सविददेश्वः ॥४६॥ चक्रति शक्तिकलां वापि सूक्ष्मां त्यजित्वा ब्रजन्ते परं यत्र नित्यम् ।
पदं सर्वभूतोत्तमं सर्वगं निष्फलं ध्यानहीनं विशन्ते सदा ॥५०॥ इति श्री देवीपुराणे घोरवधे शिवकृतो देवीस्तवो नाम सप्तदशोऽध्यायः ॥
१. पठन्ते क। ३. मेधानलक। ६. पुरा यानि क। ८. समापं सविद्यरेवरं चक्रवर्ति स्व शक्ति क ग। ६. इत्याद्य देव्यवतारे घोरवधे देव्यास्तव: क ग ।
२. ग पुस्तके नास्ति । ४. लभन्ते क ग । ५. क पुस्तके नास्ति। ७. रुद्धा क।
'