SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ देवीपुराणम् त्वमेवोषधी कालनिर्णाशनी जाह्नवी त्वं जटाभिर्मया धारिणी गम्भीरघोरस्वने । सर्व शस्त्रोद्यते सर्वदेवैव ते रक्ष रक्षस्व मां दिव्यमाल्याम्बरे दिव्यगन्धानुलिप्ते ॥३७॥ धार्य ताराह' मृता सत्यवादित्यजाता जिता क्रोधनावमेव क्रोधनिष्ठा । विभुत्याहूती कालरात्री शची कामरूपी स्वधावेशिनी विध्न निर्णाशनी ख्यातिारायणी ॥३८॥ कृष्ण पिङ्ग प्रगल्भानिलभ्रामणी देवदैत्येन्द्ररक्षोरगैः किन्नरैः । यक्ष गन्धर्व विद्याधर वन्दिते मुनिवरः संस्तुते भगवती तव कीर्ति नामुच्यते ॥३६॥ कालपाशे निवद्ध सुरेन्द्र श्च नीतमृषीन्द्र श्च शप्तं मृगेन्द्र गृहीतं गजेन्द्र विभिन्न ग्रहेन्द्राभिभूतम् । खगेन्द्र विलुप्तं भुजङ्गश्च दष्टं जले वापि मग्नं स्थले - वापि खिन्नं वने वापि मूढं रणे शरैभिन्नदेहम् ॥४०॥ परैः सम्मुखस्य विवादे निरस्तं महाग्राहग्रस्तं तथाराध्यमानन्तु मातेव संरक्षसे पुत्रवन्नित्यशः । विविधकलिकलुषपापाधिये मानवास्तेऽपि सञ्चिन्त्य' देवी त्वदीयं मुखं पूर्णचन्द्रप्रभम् ॥४१॥ सोम सूर्याग्निनेत्र प्रद्योतित कुण्डललॊलसंघृष्टगंडद्वये तेऽपि पापान् प्रभुञ्चति । संसारघोरार्णवे मज्जमानांस्तथा शत्रुमध्यगतान् यानपात्रस्थितान् शृङ्खलैर्वेष्टितान् तस्करैरावृतान् ॥४२॥ त्रासि सान् सदेवान् सरक्षान् सगन्धर्व नागान् सविद्याधरान् साश्विनान् । सग्रहान् सप्त पातालभूर्लोक दिव्यान्तरीक्षस्थितान् नात्र कुर्याद् विकल्पं महादेवी सञ्चिन्त्य त्वाम् ॥४३॥ चण्डिके शिवपुरवरमार्ग सोपानमेतन्महादण्डकं शिवकृतं घोरनिकृन्तं पापनिर्णाशनं सर्वकामप्रदम् । नामभिश्छान्दसैः साधकानां हितार्थाय संक्षेपतः कोतितं सारमुद्धृत्य दघ्नाज्यमिव सर्वदा ॥४४॥ १. त्वमेवायं भावा क । २. क्रोधनिष्ठा क ग। ३. सुधावेशनी क । ४. संप्रतस्थं क। ५. सिंचित्व क। ६. संसार घोगंतरे क ग । ७. क्षुत्पिपासादितान् वृक्षसायागतान यंत्रसंपीतान् क । ८. सराक्षन् क । है. संयोगतः क।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy