________________
सप्तदशोऽध्यायः ।
इन्द्र उवाच ।
नारदस्य वरं दत्ते घोरे तत्र समागते । किमकुर्व्वद् भगवती किं वा घोरो महावलः ' ॥१॥ किञ्च लोक प्रमाणन्तु हतशेषस्य नो वद । एवं पृष्टस्तदा ब्रह्मा श्रशेषं वासवेन तु ॥२॥ विमृष्य कथ्यते सर्व देव्या घोरं महारणम् । यदिदं पृच्छसे शक्र देव्या घोरस्य सङ्गरम् ॥३॥ ब्रह्मोवाच ।
तं ब्रवीमि यथावृत्तं प्रत्येकं न तु वाहिनी । वणितुं शक्यते शक्र समग्रन्थिभिः कोटिभिः ॥४॥ तथापि किञ्चित् संक्षेपात् कथयामि सुराधिपः । रथानां कोटयस्त्रशत् सप्तलक्षास्तथायुतम् ॥५॥ कोटिशतानि पञ्चाशद् गजानां सप्ततिस्तथा । लक्षायुत सहस्राणि षष्टिः पञ्चाधिका विभो ॥ ६ ॥ कोटि लक्षाणि चाश्वानां पंच पंचाशद् वासव । लक्षा द्वात्रिंशत् पञ्चाशत् सहस्रपरिसंख्यया ॥७॥ लक्षा द्वासप्ततिः शक्रं तथायुतत्रयं त्रयम् । हतशेषन्तु घोरस्य तिष्ठतेऽमरपुङ्गवः ॥८॥ घातितं द्विगुणमेतज्जया विजयासङ्गरे ॥ ॥
यमान्तकस्तथा काल दुर्मुख- वज्र - भैरवैः । स्वयन्ते घातितं देव्या महाकाल्या ह्यनेकशः ॥१०॥
शक्र उवाच ।
हतशेषबलो ब्रह्मन् घोरो घोर-पराक्रमः । भीतो वा प्राणरक्षार्थं किं वा युद्धमनोनुगः ॥ ११॥ ब्रह्मोवाच ।
हतशेषबलः शक्र घोरः क्रोधाग्नि- दीपितः । चकार मायया सेनां हताहतसहस्रधा ॥१२॥ तां घोर - मायामनुभूतभूतां सेना ययौ वासव सप्त लोकान्
भूम्यन्तरीक्षान् सहसप्त द्वीपान् पाताल लोकान्तरव्याप्त मार्गान् ॥१३॥
१. किं कुर्वती तत्र वा घोरो महाबलः क ।
३. महाबल क ग ।
२. किं बलं क ग ।
४. कोटि लक्षाणि चाश्वानां पंच पंचाशद्वासव क ग ।
५. सद्वीप क ग ।