________________
सप्तदशोऽध्यायः
विष्णु समस्तेश-सुरेश-वन्यं शक्रं महामत्त-मतङ्ग-यानम् । रक्षोऽनलं वायु तथा कुबेरमोशञ्च रुद्रं जगदीशितारम् ॥१४॥ सोमं रवि दीप्तवतां वरिष्ठ रुद्रान् समस्तान ह्यथ विश्वदेवान् । ऋक्षान् ग्रहान् नाग-सुसिद्ध-सङ्घान् विद्याधरान् किन्नरभूत-पितृन् ॥१५॥ सर्वान् समस्तानपि पीडयित्वा देव्यस्तया घातयितु प्रवृत्त । तां घोर-माया-मति'-मुग्ध-चेताः शम्भुस्तथा संस्मरते परां ताम् ॥१६॥
ईश्वर उवाच । जय-जय हरिहर कमलासनाभ्यच्चिते नमो देवी शिवे शम्भु वक्त्रोद्भवे । चण्ड रूपे सुवक्त्रे सुनेत्रे सुगात्रे सुवेशे सुविम्वाधरोष्ठि महायोगिनि बहिणीव ॥१७॥ पिच्छध्वजे तुहिनकर - कुमुदकुन्देन्दु-सवर्णाभिरत्यन्ततीक्ष्णाभिर्दष्ट्राभिः संदृश्यते । भैरवी भीषणी वीरभद्रे सुभद्र' श्मशानप्रिये पद्मपत्रे क्षणे घोर रूपे ॥१८॥
जयन्ती जये मानसि मानवि मर्त्यमाते मृगेन्द्रध्वजे सर्वसिद्धिप्रदे । . जलनिधि वरदुन्दुभि मेघनिर्घोष हासस्वने ॥१६॥
ब्राह्मि कौमारि माहेन्द्रि माहेश्वरि वैष्णवि वाराहि वायुरग्न्यात्मजे। हेमकूटे महेन्द्र हिमाद्रौ महीधारिणि विन्ध्यसह्यालये श्री गिरौ संस्थिते ॥२०॥ ह्रस्व दीर्घः कृशैः स्थूललम्बोदरस्तालजङ्घ' महाभैरवैः प्रमथलक्षणे ते । दिनकर-कोटि कल्पान्तर वह्निप्रभे हेम वर्णे सुवर्णे रति-प्रीति दक्षे ॥२१॥ मति-शान्ति-लक्ष्मी-धृति-ऋद्धि-द्य ति-सिद्धि-बुद्धि-कृति' -तुष्टि-पुष्टि-स्थिति। सृष्टि-वृष्टि-प्रिये वेद-माते कृतज्ञे कुमारि ध्रु वे शाश्वति तापसि साख्ययोगोद्भवे ॥२२॥
३. अन्चिते देविमाते क । ६. पद्मवक्त्रे क ।
१. मभि क । ४. रूपे स्वरूपे क ग । ७. निर्घोष महासुरे क ग । ६. रक्षेक।
२. दुग्ध क। ५. सुवेशे सुकेशे क ग । ८. जव: क ग । १०. गति क।