________________
षोडशोऽध्यायः
समस्त कार्यकरणी ईप्सितार्थ प्रसाधकी । व्रजामि शरणं देवों शरणागतवत्सलाम् ॥३३॥ भीमामुग्रां तथा वामम्बिकां त्र्यम्बक- प्रियाम् ।
८०
त्वं ही भावप्रपन्नानां हृदिस्था पापनाशिनी ॥ ३४॥ जयञ्च समरे नित्यं विद्यालाभञ्च दुर्लभम् । दीर्घमायुरयोत्साहं पार्थिवानाञ्च इच्छताम् ॥६५॥ पुत्राश्च गुणसम्पन्नाः परापर परागतिः । त्वया ह्येतानि प्रार्थ्यन्ते ममापि वरदा भव ॥२६॥ एवं स्तुता ततो देवी नारदेन महात्मना । ददर्श सहसा शक्र सिंहारूढां महावलाम् ॥३७॥ चर्मासि-धनु-नाराच-शूल-खट्वाङ्गधारिणीम् । वज्र-शक्ति-गदादण्ड- पशु-मुद्गर-विभ्रती ॥३८॥ पाशाङ्कुशध्वज - वीरगा - घण्टा - डमरू धारिणी । चित्र दण्डा तथा मुण्ड कनकाभेदीनी तथा ॥ ३६ ॥ द्विपा च सा रौद्र शैलकृतश्चारिणी । प्रक्ष सूत्र करा देवी वरदोद्यत - पाणिनी ॥४०॥ भक्तानां भक्ति-जननी पावनी जननी तथा । याच याचेती वाचन्ती वरं ब्रह्म मनोगतम् ॥४१॥ ततः स प्रणतं उचे घोरं देव- रिपुं वध । तथेती नारदमुक्त्वा तावद् घोरः समागतः ॥४२॥
॥ इति श्री देव्यवतारे देवीपुराणे देव्यानारददर्शनं नाम षोडशोऽध्यायः ॥
१. पादशनी क ।
२. हुतभुग्धारिणी क ग ।
३. मनोनुगां क ।
*