________________
देवीपुराणम्
७६
ताश्च कृत्स्नां तदा ध्यात्वा नारदस्तत्त्वविन्महान् । दुविज्ञेयां महादेवी मन्त्रनामस्तुतोष सः ॥१५॥
॥ नारद उवाच ॥ जय शम्भुनुते देवी जय रुद्रतनूभवे । जय केशव ब्रह्म श उत्पत्ति स्थिति कारकि ॥१६॥ जय-संहार काराय रुद्रदेहभवाय च । जय परार्थ' भावेशि जय वागेशि मङ्गले ॥१७॥ जये सर्व मते माते जय नामवरप्रद । सर्वगे सर्वनामेभ्यः प्रसीद मम शङ्करी ॥१८॥ नामान्युदीरयिष्यामि यानि ते प्रथितं त्रिषु । यस्तु नामैः सदा लोके अत्रैवमनुगीयसे ॥१९॥ दुर्गा शाकम्भरी गौरी वरदा विन्ध्यवासिनी । कात्यायनी सुप्रसादा कौशिकी कैटभेश्वरी ॥२०॥ महादेवी महाभागा महाश्वेता महेश्वरी । त्रिदशा वन्दिनीशानी भवानी भूतभाविनी ॥२१॥ ज्येष्ठा षष्ठी तमोनिष्ठा ब्रह्मिष्ठा ब्रह्मवादिनी । अपर्णा चैकपापा च सुपर्णा चैकपाटला ॥२२॥ त्रिलोकधात्री सावित्री गायत्री त्रिदशाच्चिता। त्रिशूलिनी त्रिनयना त्रिपदा त्रिगुणात्मिका ॥२३॥ श्रद्धा स्वाहा स्वधा मेधा लक्ष्मीः कान्ति क्षमावती । वृद्धि समृद्धि बुद्धिश्च शुद्धि संशुद्धि रेव च ।२४। सर्वज्ञा सर्वतोभद्रा सर्वतोक्षि शिरोमुखी । सर्वभूतादिमध्यान्ता सर्व्वलोकेश्वरेश्वरी ॥२५॥ मानवी यादवी देवी योगनिद्राथ वैष्णवी । अरुपा बहुरूपा च सुरुपा कामरुपिणी ॥२६॥ शैलराजसुता साध्वी स्कन्दमाताच्युतस्वसा' । जया च विजया देवी अजिता अपराजिता ॥२७॥
श्रुतिः स्मृतिः धृतिः क्षान्तिः शक्तिः शान्तिरथोन्नतिः ।
प्रकृतिः विकृतिः कीर्तिः स्थितिः सन्ततिरेव च ॥२८॥ कालरात्रि महारात्री भद्रकाली कपालिनी। चामुण्डा चण्डिनी चण्डी चामुण्डविनाशिनी ॥२६॥ रुद्राणी पार्वतोन्द्राणी शंकराद्ध शरीरिणी । दीक्षा दाक्षायणी चैव नारी नारायणी तथा ॥३०॥ निशुम्भ-शुम्भदमनी' महिषासुरघातिनी । सहस्रनयना धोरा' .रेवती सिंहवाहिनी ॥३१॥ विश्वावती वीर्यवती वेदमाता सरस्वती । मायावती भोगवती' सती सत्यवती तथा ॥३२॥
३.शान्तिः
क ग ।
१. परार्द्ध क। ४. सिद्धि क। ६. चंडा शिखंडिनी क ग । ६. देवमाता क ग।
२. ब्रह्मने ब्रह्मचारिणी क ग । ५. च्युतम्बरा ख। ७. युधिनी क। १०. भगवती क ग।
८. वोरा क ग ।