________________
षोडशोऽध्यायः ।
ब्रह्मोवाच । हते वज्र महावीरे हते चापि यमान्तके । घोरसेनाहिता भूता हतवीर्यपराकमा ॥१॥ तान् दृष्ट्वा निहतान् वीरान् सुषेणः प्रत्यभाषत । मया त्वं देव-देवानां बुद्धिमभ्योधिको मतः ।
येन पूर्व सुरः स्वामी अच्युतः परितोषितः ॥२॥ यः समः सर्वभूतेषु स्थावरेषु चरेषु च । यस्य राज्य-मदोत्सेकान्न विकारः प्रवद्धितः ॥३॥ यस्य मातृ समाः सर्वाः परदाराः स्नुषा इव । यस्य काञ्चनलोष्टानां विशेषो नोपलभ्यते ॥४॥ यस्य शब्दादयो भावा न बाधन्ते मनागपि । यस्य कामजक्रोधादिर्न गगो विशते तनुम् ॥५॥ यस्य दुर्गाष्टकारम्भे नित्यश्च करुणोदयम्' । यस्य व्यूह-क्रियां भावमण्डलं तत्त्ववेदिता ॥६॥ प्रत्यक्षं वर्त्तते नित्यं करस्यमपिधात्रिजम् । यस्य करि महागन्धा मंदमत्ता न राष्ट्रजाः ॥७॥ यस्य हारकदण्डानि छत्रेषु न जने क्वचित् । यस्य घाता अश्वोष्टेषु न पुरे न च खेटके ॥८॥ यस्य भूताः प्रियाको कार्मुकागा न विग्रहे । यस्य चाध्वरयज्ञेषु चाश्रुपातो न शोकजः ॥६॥ यस्य शक्ति कृपारणेषु कलङ्को न च भीकृतः । यस्य स्वप्न प्रभा मिथ्या न च वक्तव्ययाजने ॥१०॥ यस्य वाले मुखाभङ्गीन च क्रोधात् भयात्क्वचित् । एवं विधस्य ते देव सर्वशास्त्रविदस्य च ॥११॥ प्रापदो या विशन्तीगास्तन्महदद्भुतं रिपुः । यावद्यावत् समाधाय घोरो मन्त्री प्रचक्रमे ॥१२॥ तावत्रारद आयातो विष्णुब्रह्म शप्रेषितः । यत्र सा परमा देवी त्रयाणामपि कारणा ॥१३॥ निष्कला शान्तिदानन्ता मुनीनां त्राणमिणी। स्थिता सा वस्त्ररूपेण जया द्यौ शम्भुराज्ञया ॥१४॥
१. ग पुस्तके नास्ति श्लोकोऽयं । ४. समवाय क।
२. वाणेषु ज्याभगो ग। ५. प्रचमेत् क ।
३. विशंत्ये हतमहत्पद्भुतं विदुः क। ६. दाशांतामनन क।