________________
पञ्चदशोऽध्यायः ।
ब्रह्मोवाच । । हते काले' कालबल प्रभावे सुहृष्ट देवाः सह वासवेन । घोरस्य पत्नी विमना विषण्णा दृष्ट्वा तु शक्र स्तुवते तु देवीम् ॥१॥
शक्र उवाच । जय जय सुराणां परित्राणभूते महाहरे सङ्गरसुप्रतापे । समस्त भीतान् परिरक्षणाय त्वां देवीं मुक्त्वा अपरो न चास्ति ॥२॥ महाबलं घोरबलं प्रधानं यमस्य वह्नरऽपि संचितारम् । वयं सब्राह्मणाः सवायुयक्षास्त्वया पुनर्देवि दिवं निविष्टाः ॥३॥ सर्वेऽपि भीता भवतीं प्रणम्य भयेभ्य मुञ्चन्त्यविचारणेन । महार्णवे सिंह-गजाभिभूतास्त्वामाश्रिता वीतभ या भवन्ति ॥४॥ ज्वालौघकालानल-सम्प्रवृद्ध यं ब्रह्मविष्णोरपि मोहकर्ता । सं प्रेक्ष्य देवी सहसा महान्तं समं गतं प्रावृषिणेव पांशु ॥५॥ यं दुन्दुभिः ब्रह्मजनार्दनैश्च न निज्जितं भास्कर-वायु-यक्षः। जले सरक्षः सहसा विभेति तं देवी दृष्ट्वा भस्मीप्रयातम् ॥६॥ त्वं भूमि वायु ख जल हुताशं दिशो दिवं सागर ऋक्षचक्रन् । यां सर्वदेवाः सततं नमन्ति तां देवदेवों शरणं व्रजामि ॥७॥
१. काले हते क ग । ४. विमानां क । ६. परित्राण भृत् क ग। ८. क्षेज क।
२. प्रभवे क।
३. सुरेण ख । ५. तनुवते तुदेव्यां ख । ७. महाहर संग वस्तु प्रभाते क । महोदर संगरसुप्रभाते ग।