________________
पञ्चदशोऽध्यायः
यां ध्यानयोगैरपि योगशक्त्या ध्यायन्ति नित्यं परतत्व देवीम् । वेदान्त' वादी सततं च कृत्स्नां यां याजिनो नित्यमश्वेषु यज्वाः ॥ ८ ॥ यां सांख्ययोगैः सपतञ्जलाख्यैः सिद्धान्त- मन्त्रैरपि मन्त्रवादी | या डाकिनी भूतग्रहैः प्रशस्तान् सत्त्वान् समस्तानपि मोचयेति ॥ ॥ न चादिरस्य न च मध्यमन्तं न रूपकान्तिर्न च स्तोत्रमन्यत् ।
यां शंङ्करः सर्व्वगतोऽपि स्तौति तां देवदेवीं शरणं प्रपद्ये ॥१०॥
एवं तां तोषयांञ्चक्रे जयां कालनिवर्हणाम् ।
प्रददौ सा वरं तस्य देवराजस्य वासव ॥११॥
इदं घोरबलं हत्वा भूयोऽपि सुरसत्तमः । तव पुष्टि करिष्यामि सर्व्वकालं पुरन्दर ॥१२॥ यो जिया स्तोत्र भक्तितः सम्पठिष्यति । प्रणष्ट- राज्यद्रव्याणि पुनरेव लभिष्यति ॥ १३॥
ब्रह्मोवाच ।
श्रुत्वा तं तदा कालं सह भैरवं पिङ्गलम् । वज्रदण्डस्तदा क्रुद्धो देव्या योद्ध व्यधावत ॥ १४ ॥ पाश-मुद्गरदण्डाब्ज कुन्त- बाण - कृपाणभृत् । ववर्ष सहसा बज्रः प्रावृण्मेघ इवाम्बुभि: ॥ १५॥ . न दिशो न तदाकाशं न च भूवायुगोचरम् । लक्ष्यते बागधारोघैर्वज्ञदण्डमहाध्वनैः ॥१६॥ देव्या धनुषि वज्रेण शराः पञ्चाशत् प्रेरिताः । तैर्विविध्य धनुर्देव्या कोपानल - सुदीपिता ॥१७॥ विमोक्षे" वारुणं शस्त्रं महामेघ- समप्रभम् । तं नदन्तं महाघोरं विद्य त्पूर्व्वं दिशो दश ॥ १८ ॥ वर्ष प्लवते सर्व्वा दानवीं वाहिनीं तदा । तं दृष्ट्वा वज्रदण्डेदं महामाया-समुद्भवम् । वायुं मुमोच मेघानां तेन ते शमिता घनाः ॥ १६ ॥
१. सक्ता ग । २. देवीं ख ।
५. सांख्ययोगौरपि योग सत्ताध्यायंति सपतं जाख्यैः क ।
७. च क ग ।
१०. यमौवरम् ग ।
३. वेदी ग ।
७५
८. इष्ट ग ।
११. वारुणमस्त्रं ग ।
४. वदन्ति ख ।
६. निवर्हण क ग ।
६. सह भैरवपिगंलां ग ।