________________
७४
चतुर्दशोऽध्यायः
3
एवं स कालो हत भैरवञ्च' चामुण्डपिंगाक्ष महाबलश्च ॥ २६ ॥ मायाविनो मत्तमतङ्गरूपा देव्या समासाद्य ज्वलन्तकोपाः । ते देवि वाणाशनि भिन्नरक्षा गतासवः प्र ेतपथं प्रयाताः ॥ २७॥ एवं हते कालबले प्रशेषे देवा मुमोचोपरि पुष्पवृष्टिम् । मेघाश्च शीतोज्वलवारिविन्दून् वाता ववाहापि दिव्यगन्धाः ॥ २८ ॥ नृत्यन्ति विद्याधर- सिद्ध-संघा महाप्सरा- किन्नर - चारणाश्च । ॥२६॥ इति श्रीदेवीपुराणे देव्यवतारे कालवधोनाम चतुर्दशोऽध्यायः ।
१. भैरवस्य न ।
४. इति देव्यवतारे कालवधः ग ।
२. भिन्नरूपा ग ।
३. प्रयाति ग ।