________________
देवीपुराणम्
१
यमान्तकस्तथा रौद्रं विभुं प्रह्लाद - दुन्दुिभिः । प्रजितां मृगमारूढां मर्दयेत् सहसा तदा ॥ १४ ॥ वामनैर्दुष्ट-लोभा हलाहल - भयङ्करैः । दशधा वेष्टिता देवी या सा नाम्नापराजिता ॥ १५० दशधा शतधा चैव तथायुताथलक्षधा । निगूढजंतवः शक्र देवाः पश्यन्ति शङ्किताः ॥ १६ ॥ ततः कणिक नाराच भुषुण्डि मुद्गरैस्तथा । ववर्ष दानवी सेना देवीनां सहसोपरि ॥१७॥ तदा जया तु संक्रुद्धा शरपातेन पीडिता । प्रासं प्रक्षेपयेत् काले तस्याः सिंह निपातनम् ॥ १८ ॥ तं प्रासघाताहत - छिन्नबन्धं निस्त्रिं शमादाय तदा तु कालः । चर्मेण वामं भुज पूरयित्वा जयामुखोऽधावत क्रुद्ध कोपात् ॥१६॥
दृष्ट्वा तु कालं सहसा पतन्तं कृपाणपाणि सुविवृद्ध-मन्युम् । जया मुमोचोपरि तस्य शक्ति कृपाण घातादपि तां जघान ॥२०॥
शक्ति हतां पश्य तदा जया तु नाराच-धारा जल वारि वाहैः । कालस्य सेनोपरि सा ववर्ष कालोऽपि भिन्नः शतवारणघातैः ॥२१॥
देविघातात भू-निषण्णो लब्ध्वा तु चेष्टां सुविस्रन्ध चेता । श्रादाय वज्राशनि वज्रकोपः खुरं प्रमुमोच सुतीक्ष्णधारम् ॥२२॥ तमापतन्तं तु देवी शरेभ्यश्चिच्छेद यान्यान्यपि तस्य मोच 1 एकेन यानमपरेण श्वानन्येन छत्र सपताकदण्डम् ॥२३॥ चिच्छेद सा काल महाबलस्य देवीं शरैस्तस्य विवृद्धमन्युः । तथापि कालो गदां मुमोच देवीमुखो धावितुं सम्प्रवृत्तः ॥२४॥ चक्रेण तं काल भटस्य तंतं देवी विमुक्तेन गता स्वभूमौ । कालं हृतं भैरव सन्निरीक्ष्य निषण्णमृत्युः स विवृद्धमन्युः ॥ २५ ॥ गदां समादाय जयां प्रवृत्तः खरप्रघातादपि सो गतायुः " ।
१. संकिता क ।
३. तु मापतम् क ।
६. या क ।
६. गदा स्व भूमौ ख ।
२
२. कातराणां घातैः ग ।
४. तस्य ख । N
७. गदया क ग ।
१० कौरव कग
५. अश्वाम् क।
८. धावति ख ।
११ सुखदप्रभातावपि ख ।
ウ
ૐ