________________
चतुर्दशोऽध्यायः ।
इन्द्र उवाच ।
एवंविधैस्तथा स्वप्नैः दृष्टं घोरेण पद्मज । प्रभाते किमभवत् तस्य शुभं वाप्यथवाशुभम् ॥१॥ किंवा सा वाहिनी तस्य तथा मन्त्रि पुरोहितौ । चकार तत् समाख्याहि कौतूहलपरा वयम् ॥२॥ ब्रह्मोवाच ।
शृणु वासव तत्वेन वदतो ह्यखिलं मम । उत्थाय स तदा वीरो देवमन्त्रमनुस्मरन् ॥३॥ तावन्नष्टाः स्मृतिस्तस्य महामोहविमोहितः । प्रतीक्ष्य वासरात् पंच तावत् - कालः समागतः ॥४॥ तेन श्रुत्वा हतं वीरं दुर्मुखमरिसूदनम् । शैलराजेन्द्र- कन्याया विना कोपान्निरायुधः ॥५॥ ततः स कालकालेन प्रेरितो वदतेऽसुरान् ॥६॥
काल उवाच ।
तया निपातितो वीरो दुर्मुखो ह्यरिमर्द्दनः । तां कन्यां कुत्र पश्यामि तन्नो वदत् सुव्रताः । यदि पर्वतराजेन्द्रो रक्षते सह शंभुना ॥७॥
तथापि प्रत्यनिघ्नामि यदि वा केशवो भवेत् । इत्युक्त्वा तदा कालः पूर्णकालो महाबलः ॥ ८ ॥ निवारितः सुषेणेन मन्त्रिरणा न च संस्थितः । काल भैरव - चामुंडा पिङ्गलाक्षा महासुराः ॥ ॥ आरुह्य पर्वतं वीरास्तर्ज्जयंस्तां च कन्यकाम् । तान् दृष्ट्वा उष्ट्रारूढान् केचित् स्यन्दन- संस्थिताः । १०। जया च श्रश्वमारोहत् गजमिव महाबलम् । कृपाण पाणिनी तर्ज्य तदा कालं महाबलम् ॥११॥ मायारूपं सुरास्त्रज्ञं युद्धशास्त्र - विशारदम् । मायोत्थं निर्ममे सिंहं गजराजभयङ्करम् ॥१२॥ महिषं च महाघोरं यमस्य इव वाहनं । भैरवं तं समास्थाय विजयामभिमर्दयेत् ॥१३॥
१. चामुंडपिंगलाख्या, क ग ।
२. निर्म क ।