________________
देवीपुराणम् ।
रात्रौ देयो बलिस्तत्र युगवृक्षं तथैव च । वासवानां महावृक्ष कृत्वा चान्यत्र गम्यताम् ॥१२॥ ध्वजार्थे देवराजस्य न क्षान्तिस्तव अत्र च । पूजयित्वा ततो वृक्षं बलि भूतेषु' दापयेत् ॥१३॥ प्रभाते छिन्दयेद् वृक्षं शुभ स्वप्नादिदर्शनैः । शुक्लाम्बरधरं चैव समुद्रतरणं नदी ॥१४॥ वृक्षान् नम्रान् शुभ्रान् क्षीणानारोहयेद् देवतालयम् । देवं द्विजं तथा साधु लिङ्ग ब्रह्म हरेरपि ॥१५॥ प्रतिमा पूजिता स्वप्ने क्षिप्रसिद्धिः फलप्रदा । मत्स्य-मांस दधि-लाभ-रुधिरं मृतरोदनम् ॥१६॥ अगम्य-गमनं दृष्ट्वा आशुसिद्धिः शुभप्रदा । द्रुमाद्रि-लंघनं धन्यं शत्रुनाशस्तथाशुभः ॥१७॥ फल-पुष्प-सिता दूर्वा स्वप्ने लब्धा जयावहा । शंखं गावस्तथा दंति लाभो राज्य-प्रदायकाः ॥१८॥ गौः सवत्सा नवसूता दृष्टा पुत्र-फल-प्रदा। पंकंमुत्तरणं रूपे व्याधि मोक्षकरं चिरात् ॥१६॥ एवं स्वप्नान शुभान् दृष्टवा तथा द्दिन्देत पादपम् । उदङ्मुखः प्राङ्गखो वा मधुर-क्राक्त-पर्शना ।२०॥ पूर्वोत्तरेण पतनंमशब्दः शुभदो व्रणः । अलग्नः५ पादपे चान्ये अन्यथा तु परित्यजेत् ॥२१॥ अष्टांगुलं त्यजेन्मूलेग्रेलु तु जले क्षिपेत् । तथा तमानयेद्वत्स शकटेन वृषेण वा ॥२२॥ प्रधानैर्बलसम्पन्न येत्तत्पुरतः पुरम् । नीयमाना यदा यष्टी समाना चतुरस्रका ॥२३॥ वृत्ता वा भंगमाधत्ते राज्ञः पुत्र पुरोहितान् । प्रावभंगे बलं भिन्द्यात् नेम्यो नाश क्षयं तथा ॥२४॥ अर्थस्य क्षयभंगेन शांति तत्र तु कारयेत् । इन्द्रज-छत्र-मंत्रेण जातवेद समापि वा ॥२५॥ तदा' नीत्वा शुभे लग्ने पुरस्तादुपवेशयेत् । द्वारशोभा पथरथ्यां गृहे हट्ट च कारयेत् ॥२६॥ पटु पटह निनादांश्च वेश्यशंखं द्विजातयः । मंगलर्वेदशब्दश्च तान्ने याद्यत्र उच्छ्रयेत् ॥२७॥ तत्रस्थं-चित्रकर्मार-निर्मितस्तां तु वेष्टयेत् । वस्त्रैश्चांडजवोंडोत्थैः शुभ्रः सूक्ष्मर्यथाक्रमम् ॥२८॥ नन्दोपनंदसंज्ञाश्च कुमार्यः प्रथमांगगाः । देव्यो जयविजयाख्या षोडशांश-व्यवस्थिताः ॥२६॥ अधिके शकजननी दत्ताश्च दैवतैर्ध्वजाः । ध्वज परिमाणत्र्यंश परिधेः प्रथमं पिटम् ॥३०॥ षोडशांश विहीनानि कुर्याच्छेषाणि बुद्धिमान् । रसनां विचित्रवर्णां प्रथमां दद्यात्स्वयंभुवः ॥३१॥ सुरक्तां चतुरस्रां च विश्वकर्मा द्वितीयतः । अष्टां श्री तु स्वयं शक्रो नीलरक्तां प्रदापयेत् ॥३२॥
१. भूतेभ्यो ग। ३. नभोराज्य ग ६. समा वा ख
२. देवो द्विजस्तथा साधु ख । ४. कूपे ग। ८. तथा ग।
५. अनग्नः ग। 8. चाण्डाल ग।
७. संक्षयम् ग-क।