________________
द्वादशोऽध्यायः
कृत्स्नं यमेन वृत्तं च वरुणेन षडश्रकम् । मंजिष्ठा' जलदाकारं रथभेदी स्वनः शुभः ॥३३॥ नीलवर्णं च तद्युक्तं स्कंदो बहुविचित्रितम् । वृत्तं तु दहनो दद्यात् सुवर्णञ्च तथाष्टमम् ॥३४॥ वैडूर्य सतृणमिद्रो ग्रैवेयं दापयेद्बुधः । चक्रांको कृति तु सूर्यां विश्वेदेवाः प्रपूजिताः ॥३५॥ झषयोनि वसं दद्य: पद्मनीलं नीलोत्पलम् । वरुणा शुक्रेरेण ततो विशालमूर्ध्वतो न्यस्तम् ॥३६॥ ग्रविचित्राणि बहुमातृभि स्वानि रूपाणि । यत्नेनैव प्रदेयं तु केतोस्तु तस्य भूषणम् ॥३७॥ तदेव न तं विजानीयात् मंत्रादिभिः समुच्छ्रयेत् । प्रथमं प्रविशमानः भूमि यस्तिष्ठति राष्ट्रम् ॥ ३८ ॥ बालानां तालशब्देन देशघातं समादिशेत् । नृपवधकरो विशीर्णं सर्वशान्ता शुभावहा ॥३६॥ चन्द्र-सूर्य-यम- शक्र - सोम- अनद - वारुणैः । वह्नीश ऋषिमंत्रंश्च होतव्यैः दधिचाक्षतैः ॥४०॥ शुक्र - स्कन्द - गुरु-रुद्र अप्सरादि प्रपाठयेत् । हुत्वा तु विधिवद् वह्नि ज्वालां लक्षेत बुद्धिमान् ॥४१॥ सुतेजा: सुमनोदीप्तः संहतो रविसंप्रभः । रक्ताशोकसमाकारो रथभेरीस्वनः शुभः ॥४२॥ शंख- दुंदुभिमेघानां नादाः शस्त्रास्तु पावके । ततः कदलीक्षुदंडान् पताकाश्च समुच्छ्रयेत् ॥४३॥ श्रन्याश्च विविधाः शोभाः शक्रकेतुं समुच्छ्रयेत् । प्रोष्ठपदेतु अष्टम्यां शुक्लायां शोभने दिने ॥४४॥ श्रश्विने वाथ शुक्लायां श्रवणेनाथ उच्छ्रये । पौर-जन-नग्न-वृन्दैः पट्ट-भेरी- निनादितम् ॥४५॥ वितानध्वजशोभाढ्य पताकाभिः समुज्वलम् । विष्णवीश - शक्रमंत्रेण सिंह रक्षाकृतेन च ॥४६॥ दृढं च मातृकरस्थं शुभतो रणमाकुलम् । श्रविलंवितमुत्थानं भग्नं पिटकं तथा ॥ ४७ ॥
न द्रुतं वा समुत्थाप्यं केतुं वासवजं विभो । उत्थितं रक्षयेत्प्राज्ञः काकोलूकपोतयोः ॥४८॥ नसदलीपनं दद्यादन्येषामपि पक्षिणाम् | यंत्रोद्देशेन तं कुर्य्यान्मुखं केतोर्यथाविधि ॥५६॥ तथा सुसंस्थितं पूज्यं सुखयंत्रस्वयंत्रितम् । रात्र जागरणं कुर्य्यादिद्रमंत्रानुकीर्त्तनम् ॥५०॥ पुरोहितः सदैवज्ञः शुभशांतिरतः सदा । छत्रपातो नृपं हन्यात्पताका महिषीवधम् पिटके युवराजस्य ससचिवमनुकंपने । राष्ट्र तोरणपातेन ध्वजेन श्रन्नक्षयो भवेत् ॥ ५२ ॥ पति शक्रदंडे तु नृपमन्यं समादिशेत् । कृमिजालकउत्थाने शलभात्तस्कराद्भयम्
॥५१॥
॥५३॥
६४
१. मोजिघा ग ।
३. गयः ग । ६. प्रोष्ठपद्यां ग ।
४. नास्ति गपुस्तके.
२. वासुदेवो मयूरकम् क-ग ।
५. नीलोत्पलाभासम् ख ।
७. नपमन्त्रं ग ।