SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ द्वादशोऽध्यायः । नृपवाहन उवाच। भगवन् श्रोतुमिच्छामि तस्य उत्थापनं यथा । क्रियते दिन ऋक्षे तु द्रव्य-मंत्र-विधि वद ॥१॥ अगस्त्य उवाच। ब्रह्मणा कथितं पूर्व' बृहस्पति-समीपतः । यथा तथा प्रवक्ष्यामि विधि केतोः समुच्छ्रय ॥२॥ . वहस्पति उवाच। . शुभे ऋक्षेऽथ' करणे मुहूर्ते शुभमंगले । देवज्ञः सूत्रधारश्च वनं गच्छेत् सहायवान् ॥३॥ देवी प्रतिष्ठाविधिना यात्रा या' वा प्रचोदिता । गत्वा वृक्षं शुभं नेष्टं धवमर्जुनं प्रियंगुकम् ॥४॥ उदुम्बराश्च कर्णश्च पंचैते शोभना हरेः । ध्वजार्थं वर्जयेद्वत्स देवो उद्यानजान् द्रुमान् ॥५॥ कन्या मध्या' तु या षष्ठी करमानेन कल्पयेत् । एकादशकरा वत्स नव-पञ्च-करा-परा ॥६॥ अवनीष्ठां कृमिविद्धां तथा पक्षिनिषेविताम् । वल्मीक-पितृ-वनजां सशुष्क-कोटरां तथा ॥७॥ कुब्जां च घटसिक्तां च तथा स्त्री-नाम-गहिताम् । विद्य द्वज़ाहतां चैव दग्धां च परिवर्जयेत् ॥८॥ अलाभे चन्दनमाम्र कलं' शाकमयं च वा । कर्त्तव्यं शक सिद्धार्थ न चायं वृक्षजं क्वचित् ॥६॥ शुभभूमिभवं ग्राह्य शुभतोयं शुभावहम । ततः संपूजयेद्वक्षं प्राङ्मुखोदङ्मुखोऽपि वा ॥१॥ नमो वृक्षपते वृक्ष त्वामाराधयति'' पार्थिवः । ध्वजार्थ तद्वतो नाथ अन्यथा तेत्र गम्यताम् ॥११॥ १. शक्र ग। २. शुभाहे ऋक्षे क । शुभा ऋक्षं ग। ३. यात्रायां ग । . ४. देव उद्यानजान् दुमान् म। ५. कल्पमध्ये ग । १. अबलत्वां कृषिद्धां तथा यक्षनिषेविताम् ग । ७. शालम् ग। ___. चिन्हार्षेन। ६. प्रामुखोदं सुखोपि बा ग-स। १.. त्वामाचरति न।
SR No.002465
Book TitleDevi Puranam
Original Sutra AuthorN/A
AuthorPushpendra Sharma
PublisherLalbahadur Shastri Kendriya Sanskrit Vidyapitham
Publication Year1976
Total Pages588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, L000, & L015
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy