________________
एकादशोऽध्यायः
"
सुबलो नाम दैत्येन्द्रो हंसकेतु' महाबलः । मम वंशे समुत्पन्नो दण्डघातस्य वासव ।।४४।। सुबलेन' जिता देवाः भौत्ये मन्वन्तरे विभो । समागताः समस्तास्तु सह इन्द्रेण वासव || ४५|| यथा न शक्ताः समरे दैत्यान् योद्धुं पितामह । शत्रूणां परिभूतानां शरणं त्वां गता वयम् ॥४६॥ यथाहं चिन्तयामास शक्रविष्णु दिवौकसाम् । केतुना शम्भुदत्तेन उदितेन श्रसंशयम् ॥४७॥ ततो मयासुराः सेन्द्रा विष्णुमाराधयन् पुरा । स दास्यति महाकेतुं सर्वदैत्यविमोहनम् ॥४८॥ ते गता मम चादेशात् क्षीरोदे यत्र केशवः । परापरस्वरूपस्थमजमव्ययं शाश्वतम् ॥४६॥ श्रीवत्साङ्क महावाहु कौस्तुभोरस्क भूषणम् । स्तुवन्त्येते समहेन्द्रा देवाः शत्रु भयार्दिताः ॥ ५० ॥ तुतोष केशवस्तेषाँ वरं ब्रूहि पुरन्दरः । तदा तैर्याचितो देवः केतु ं ददौ सुरारिहा ॥५१॥ तेन तद् भूषयित्वा तु दत्तं देव भयापहम् । श्वेतच्छत्र महातेजः स्रग्मालापिकान्वितम् ॥५२॥ सूर्यायुतसमप्रख्यं किङ्किणीवर - नादितम् । चामरव्यजनोपेतं शम्भुलक्षणलक्षितम् तद्दृष्ट्वा सौबलं सैन्यं मग्नं स च निपातितम् । तदा प्रभृति हे शक्र ! केतुस्तव क्रमागतः ॥५४॥ | श्रन्येषाञ्चैव राज्ञाञ्च उच्छ्रयो विजयावहः । मया हरेण देवेन विष्णुना वासवेन च ॥५५॥ यदत्तं कश्चेिदेवेदं नृपतिरुच्छ्रयिष्यति । स समस्ताधिपो भूमावजेयश्च भविष्यति ॥ ५६ ॥
॥५३॥
अगस्त्य उवाच ।
एवं शक्रस्य शब्देन कथितं केतुमुच्छ्रयम् । मयापि तव विद्यदेश सर्वं तच्च प्रकाशितम् ॥५७॥
इत्याद्ये देवीपुराणे इन्द्रोच्छ्रयलब्धिर्नामैकादशोध्यायः ।
१. सर्पकेतु • ख । ३. उच्छ्रितेन ख । ६. ददस्व चारिहा ख ।
२. तेन पूर्व ख ।
४. कौस्तुभो वक्षभूषितम् ख 1
५. सहेन्द्रा वे ख ।
७. इतिपाठो नास्ति ख ।
६१