________________
किं तमसो ध्वान्तस्य स्थितिः इतिं गतिं विनाशमिति यावत् । न अयते न प्राप्नोति । अपि प्राप्नोति ।। १६ ।।
अर्थ - हे मुने! हे निर्भय ! हे यते ! आपकी इस कवितारूपी विभा - प्रभा से अनय -नयरहित दुष्कर्म रूपी रात्रि संवृत हो जाती है - समाप्त हो जाती है, यह उचित ही है क्योंकि प्रातःकाल की लाल-लाल लाली के प्रकट होने पर क्या अन्धकार की स्थिति विनाश को प्राप्त नहीं होती ? अवश्य होती है || १६ ||
[१७]
असुषमां सुषतां मनोः, ममपिबत् तृषितं हि मितान्मनो । स्वरससेवनमेव वरं भवे; दिति समीक्ष्य जगाद विभुर्भवे ।।
(हे जिन ! )मनो: अमितां असुषमां सुषमां मम मनः पिबत् (अपि) हि मितात् तृषितम् । इति समीक्ष्य विभुः भवे स्वरससेवनं एव वरम् भवेत् इति जगाद ।
असुषमामिति - (हे जिन ! ) मनोः मनुरूपस्य तव असुषमा नास्ति सुषमान्यस्य यस्यास्तां लोकोत्तरशोभासंपन्नामिति यावत् । अमितां अपरिमितां सुषमां परमशोभां 'सुषमा परमा शोभा' इत्यमरः । पिबत् पानं कुर्वदपि मम स्तोतुः मनश्चित्तं मितात् परिमितात् हेतोः तृषितं तृषायुक्तं हि निश्चयेन वर्तत इति शेषः । इतीत्थं समीक्ष्य विचार्य विभुः प्रभुर्भवान्, भवे संसारे स्वरससेवनमेव स्वस्य चेतनस्य यो रसो ज्ञानादिस्वभावस्तस्य सेवनं पानमेव वरं श्रेष्ठं भवेदिति जगाद कथयतिस्म । लोकोत्तरसौन्दर्यं दृष्ट्वापि दर्शकस्य मनः सतृष्णं भवति, अतस्तदुपेक्ष्य स्वकीयस्वभावस्थाराधनमेव श्रेष्ठं वर्तत इति भावः । । १७ ।।
अर्थ - हे जिन ! मनुस्वरूप आपकी लोकोत्तर - सर्वश्रेष्ठ एवं अपरिमित शोभा का पान करता हुआ भी मेरा मन सीमित होने के कारण तृषित - प्यासा - असंतुष्ट रहा है। अर्थात् बाह्य शोभा को देखकर मन संतुष्ट नहीं होता। ऐसा विचार कर आपने कहा कि जगत् में आत्मरसं स्वस्वभाव की आराधना करना ही श्रेष्ठ है ।। १७||
[१८]
त्वदधरस्मितवीचि सुलीलया, विदितमेव सतां सह लीलया । त्वयि मुदम्बुनिधिर्हि नटायते, अहमिति प्रणतोऽप्यपटायते ।।
(हे विभो! त्वयि मुदम्बुनिधः॑ि हि नटायते । (यतः ) त्वदधरस्मितवीचि सुलीलया सतां सह लीलया विदितम् एव (अत:)ते अपटाय अहम् अपि प्रणतः (अस्मि ) इति ।
त्वदधरेति
हे विभो ! त्वदधरस्मितवीचिसुलीलया तव अधरस्याधरोष्ठस्य
-
(to)