________________
अर्थ- हे पूज्य ! आपके शिर पर वे अपरिमित काले केश नहीं है किन्तु उत्कृष्ट ध्यानरूप अग्नि से उठे हुए धूम के बहाने भीतर की रागपरिणति बाहर आयी है।।१४।।
[१५] अयशसां रजसां वपुषाकरः, तव जितो महसा स निशाकरः । जिनारतोऽत्र ततोऽप्यमहानये, नखमिषेण पदे ह्यघहानये ।। अये! जिन! अयशसां रजसां वपुषा आकरः स निशाकरः तव महसा जितः ततः (स) अमहान् (तव) पदे अत्र नखमिषेण हि अघहानये रतः। ___ अंयशसामिति - अये जिन! हे अर्हन्! वपुषा शरीरेण अयशसामकीर्तीनां रजसां मलिनरेणूनाम्। आकरः खनि: स प्रसिद्धो निशाकरश्चन्द्रः, तव महसा तेजसा जितः पराभूतः। ततोऽपि स निशाकरः अमहान् हीनः सन् तव पदे चरणे अत्र जगति नखमिषेण अघहानये पापहानये हि निश्चयेन रतो लीनः। अस्तीति । चन्द्रमसि यः श्यामप्रदेशो दृश्यते सोऽपयशसां कृष्णरजसां खनिरस्ति। तथाभूतश्चन्द्रमा तव तेजसा पराभूतः। पराभवात् स निकृष्टो जातः। ततश्च स्वकीयपापदूरीकरणाय नखव्याजेन तव चरणे लीव इति मन्ये । उत्प्रेक्षा ।।१५।।
अर्थ - हे जिनदेव! बह चन्द्रमा, जो कि शरीर के द्वारा अपयशरूपी मलिन धूलि की खान हो रहा है, आपके तेज से पराजित हे अमहान् - तुच्छ बन गया, इसीलिये वह इस जगत् में पापों को नष्ट करने के लिये नखों के बहाने (सपरिवार) आपके चरणों में आ पड़ा है।।१५।।
[१६] विधिनिशा किल संक्रियतेऽनया, कवितया विभयाभय तेऽनया ।
किमुदितेऽप्यरुणे ह्यरुणे यते!,स्थितिरितिं तमसो न मुनेऽयते ।। हे मुने!अभय ! यते! ते अनया कवितया विभया किल अनया विधिनिशा संवियते। (उचितमेव) अरुणे अपि अरुणे उदिते हि तमसः स्थितिः इतिम् किं न अयते (अवश्यमेवेति)। .
विधिनिशेति - हे मुने! हे अभय! हे यते! ते तव, अनया एतया, कवितया विभया कवितारूपप्रभया किलेति वाक्यालङ्कारे, अनया न विद्यन्ते नया यस्यां सा नयरहिता विधिनिशा विधिरेव दुष्कर्मैव निशा रात्रिः संवियते संवृता भवति। यथा प्रभया रजन्या विलय उचितस्तथा तव कवितया दुष्कर्मसन्ततेविलय उचित एव। एतदेव दृष्टान्तेन समर्थयति। अरुणे रक्तवर्णे अरुणे प्रातःकालिक लालिम्नि उदिते प्रकटितेऽपि
(७९)