________________
अपि कौ कलौ जनपदौ शरणौ (इति आनन्दसूचिका) ।
जिनपदाविति - (हे जिन ! ) तौ वक्ष्यमाणवैशिष्ट्यसहितौ जनजलोद्भवरात्र्यहितौ जना एव जलोद्भवानि कमलानि तेषां रात्र्यहितौ सूर्यौ, कमलकोमलको कमलमृदुलौ स्वार्थे कः। विमलौ निर्मलौ, कलौ मनोहरौ, हितौ हितकारकौ, जिनपदौ जिनपादौ, अद्य मया स्तुतिकर्ता, मयि निजात्मनि हितौ धृतौ 'दधातेर्हि' इत्यनेन निष्ठायां दधातेः हि आदेशः । हि निश्चयेन महितौ पूजितौ । तौ कौ पृथिव्यां कलौ पञ्चमकाले शरणौ शरणभूतौ रक्षकौस्त इति शेषः ।। ११ । ।
अर्थ - हे जिन ! जो भव्यजनरूपी कमलों को विकसित करने के लिये सूर्य स्वरूप हैं, कमल के समान कोमल हैं, निर्मल हैं, मनोहर हैं, हितकारी हैं और मेरे द्वारा पूजित होकर अपने हृदय में विराजमान किये गये हैं, ऐसे जिनेन्द्रचरण ही पंचमकाल में पृथिवी पर परमार्थ से शरणभूत हैं - रसक हैं ।। ११ । ।
[१२]
सुरसयोगमितं यदयोगतं, कनकतां शिवमेष अयोगतः ।
" इति भवान् क्व रसः क्व मनो चिता, तदुपमा सहसा सह नोचिता । । मनः!सुरसयोगम् इतम् यत् अयः कनकताम् गतम् ! एषः (स्तुतिकर्त्ता तु) अयोगतः शिवम् (गतः) ततः भवान् क्व रसः क्व इति (मत्त्वा ) चिता सह (भवतासह) तदुपमा सहसा न उचिता ।
सुरसेति - हे मनो! हे मनुस्वरूप ! यद् यस्मात्कारणात्, अयो लोहः सुरसयोगतः सुष्ठुरसस्य शोभनरसस्य योगं सम्बन्धं, इतं प्राप्तं सत् कनकतां स्वर्णतां गतं प्राप्तं, एषोऽयं स्तुतिकर्त्ता तु हि निश्चयेन अयोगतो लोहरूपोऽपि शिवं कल्याणं मोक्षं वा प्राप्तः । पक्षे अयोगतः योगाभावतः । इतीत्थं भवान् क्व ? रसः क्व ? द्वौ क्वशब्दौ महदन्तरं सूचयतः । चिता चैतन्यरूपेण भवता सह सहसा अविचार्य तदुपमा तस्य रसस्योपमा सदृशता उचिता योग्या नास्ति ।। १२ ।।
-
अर्थ - यतश्च लोहा समीचीन रसायन का संयोग पाकर सुवर्णता को प्राप्त हो गया परन्तु यह स्तुतिकर्त्ता आपके प्रभाव से रसायन के सम्बन्ध के बिना ही (पक्ष में योगरहित अवस्था से ) शिव कल्याणरूपता स्वर्णरूपता ( पक्ष में मोक्ष) को प्राप्त हो गया। इस तरह आप कहाँ ? और रसायन कहाँ ? दोनों में बड़ा अन्तर है। आप चैतन्यरूप हैं और रसायन जड़रूप है। अतः चैतन्यरूप के साथ अचेतन रस की उपमा बिना विचार किये देना उचित नहीं ।। १२।।
(७७)