________________
[९८] मोहतमःसमुदायवृतमानस ! के कुरु वास मुदायः।
यदिति भवेत् स मुदा यः प्राह च परो यतिसमुदायः।। मोहतम- समुदायवृतमानस ! के वासं कुरु | यत् उदायः भवेत् इतिः यः परः च सः यतिसमुदायः मुदा प्राह ।
मोहेति- हे मोहतमः समुदायवृतमानस! मोहा एवं तमांसि तिमिराणि तेषां समुदायेन समूहेनावृतं परिरुद्धं मानसं मनो यस्य तत्सम्बुद्धौ । के आत्मनि प्रकाशे वा वासमवस्थानं कुरु । यत् यस्मात् कारणात् । उदाय ऊर्ध्वगमनं मोक्ष प्रतिगमनं भवेत् । इत्येवं यः परः श्रेष्ठ स यतिसमुदायः मुनिसमूहः मुदा हर्षेण प्राह प्रजगाद ।।९८।।
अर्थ- मोहरूपी अन्धकार के समूह से जिसका मन घिरा है, ऐसे हे श्रमण! 'तू आत्मारूपी प्रकाश में निवास कर जिससे तेरा ऊर्ध्वगमन-मोक्षप्राप्ति के लिये प्रयत्न हो सके ऐसा जो श्रेष्ठ मुनिसमूह है, उसने हर्ष से कहा है ।।९८।।
[९९] न मनोऽन्यत् सदा नय दृशा सह तत्त्वसप्तकं सदानय ।
यदि न त्रासदाऽनयः पन्थास्ते स्वरसदा न यः ।। मनः संदा अन्यत् न नय। सत् तत्त्वसप्तकं दृशा सह आनय । यदि (एवं) न, (तर्हि) ते यः पन्थाः (सः) त्रासदा, अनयः स्वरसदा (अपि) न ।
नेति- हे श्रमण! मनः स्वचेतः सदा सर्वदा अन्यत् अन्यस्थानं न नय नो प्रापय। सत् समीचीनं तत्त्वसप्तकं जीवादिसप्ततत्त्वसमूहं दृशा सम्यग्दर्शनेन सह आनय आनीतं कुरु। यदि न, एवं न चेत् ? तर्हि ते यः पन्थाः विषयसरणिः स त्रासदा असं दुःखं ददातीति तथा दुःखप्रदः । अनयो नास्ति अयः शुभावहविधिर्यस्मिन् तथाभूतः स्यात्। स्वरसदा स्वस्य • रसमनुभवं ददातीति तथा स्वानुभवप्रदः। न भवेदिति शेषः ।।९९।।
अर्थ- हे श्रमण ! मन सदा अन्यत्र न ले जा, सम्यग्दर्शन के साथ श्रेष्ठ साततत्त्वों में ला। यदि ऐसा नहीं करता है तो तेरा मार्ग दुःखदायक तथा कल्याणकारक विधि से रहित होगा एवं आत्मानुभव को देने वाला नहीं होगा ||९९।।
[१००] __ अतिलघौ लघुधियि मयि त्यक्तकरणविषयेऽये समतामयि ! .
कुरु कृपां करुणामयि! विशुद्धचेतने! सुधामयि ! ।। अये! सुधामयि! करुणामयि! समतामयि! विशुद्धचेतने! लघुधियि त्यक्तकरणविषये अतिलघौ मयि कृपां कुरुं।