________________
(केवलज्ञान) प्राप्त होता है- ऐसा सुर-असुरों से स्तुतजिनेन्द्र भगवान् ने कहा है।।८९।।
[९०] शुचिर्विवेकदृशा न आत्मा दृश्यतेऽनया च दृशा न ।
ना विना को दृशा न ते विदुरादर्श- सदृशा नः!।। (हे) नः ! विवेकदृशानः शुचिः आत्मा अनया दृशा च न दृश्यते। दृशा विना कः न (आप्यते)- (एवं) ते आदर्श-सदृशाः नाः विदुः ।
शुचिरिति-हे नः ! अये मानव! विवेकदृशा भेदज्ञानदृष्ट्या शुचिरुज्ज्वलः नः पूज्य आत्मा दृश्यतेऽनुभूयते। अनया धर्ममय्या दृशा दृष्ट्या च न दृश्यते नावलोक्यते। दृशा भेदविज्ञान-दृष्ट्या विना क आत्मा न आयते न लभ्यते। एवं ते आदर्शसदृशाः दर्पणतुल्याः नाः जिनाः विदुर्जानन्ति ।।९।।
अर्थ- हे मानव ! पूज्य निर्मल आत्मा भेदविज्ञानरूप दृष्टि से दिखाई देता हैअनुभव में आता है, इस चर्ममयी दृष्टि से नहीं । दृष्टि के बिना क- आत्मा, सूर्य, प्रकाशादि प्राप्त नहीं होते-ऐसा दर्पण के समान वे जिनराज जानते हैं ।।९०||
[९१] दृशा विना चरणस्य भारं वहता च पदं च चरणस्य ।
नुमञ्चताऽऽचरणस्य नाप्तिर्नुतनृनभश्चर ! णस्य ।। (हे) नुतनृनभश्चर ! दशा विना चरणस्य भारं, चरणस्य मदं च वहता, आचरणस्य नुम् अञ्चता णस्य आप्तिः न (भवतीति)।
दृशेति- हे नुतनृनभश्चर! नृनभश्चरै नरविद्याधरैः - स्तुत! दृशा विना सम्यग्दर्शनमन्तरेण चरणस्य चारित्रस्य भारं बाह्यचरणस्य चारित्रस्य गोत्रस्य वा मदं गर्व च वहता दधता, आचरणस्य नुंस्तुतिं च अञ्चता प्राप्तवता जनेन। णस्य ज्ञानस्य आप्तिः प्राप्तिन भवतीति शेषः। यः सम्यग्दर्शनेन रहितं चारित्रं बिभर्ति, तेन चारित्रेण गर्व चावहति, चारित्रस्य नित्यं प्रशंसां च विदधाति तेन प्रकाशो निर्णयो वा नैव लभ्यत इति भावः ।।११।।
अर्थ- हे मनुष्य एवं विद्याधरों से स्तुत जिनदेव! जो सम्यग्दर्शन के विना चारित्र का भार ढोता है, उस चारित्र से अपने उच्चगोत्र का गर्व करता है और स्वकीय आचरण की स्तुति - प्रशंसा करता है वह मनुष्य निर्णय अथवा ज्ञान को प्राप्त नहीं होता ||९१||