________________
[८८] तदाऽऽत्मा मेऽजायते मयि यदैव सच्चेतना जायते ।
त्वमतस्तां भजायतेन भयं या स्वभावजा यते ! ।। यदा एव मयि सच्चेतना जायते, तदा (एव) मे आत्मा अजायते। (हे) यते! स्वभावजा या (सच्चेतना) तां भज। आयतेः भयं न (भज)।
तदेति- यदैव यस्मिन्नेव समये अयि स्तोतरि सच्चेतना सती चासौ चेतनेति सच्चेतना रागादिरहिता ज्ञानपरिणतिः जायते तदैव तस्मिन्नेव काले मे मम आत्मा अजायते अज इवाचरतीत्यजायते जिनेन्द्रायते। दशमगुणस्थाने रागपरिणतेरभावे सति क्षीणमोहाभिधानद्वादशगुणस्थानेऽवशिष्टघातित्रिकं विनाश्यान्तर्मुहूर्ते सैवायमात्माईन् भवतीति प्रसिद्धेः । हे यते! अये श्रमण! स्वभावजा स्वाभाविकी या सच्चेतना तां भज। आयतेरुत्तरकालस्य भविष्यत इति यावत् भयं भीतिं त्यज। अग्रे कोऽहं भविष्यामीति विकल्पोन कार्यः ।।८८।।
अर्थ- जिस समय मुझमें सच्चेतना प्रकट होती है-मेरी ज्ञानपरिणति रागादिक विभावभावों से रहित होती है, उसी समय मेरी आत्मा अज-भगवान् जैसी हो जाती है। हे श्रमण! जो स्वाभाविक सच्चेतना है उसी की तू सेवाकर. - आराधन-मनन-चिन्तन कर, भविष्यत् का भय न कर ||८८|| ..
[८९] निजस्य गतमदा नवः समावहन्तस्तं समं दानवः । ।
क एति कामदा नवस्तानाह नुतयमदानवः ।।। “(ये) गतमदाः निजस्य नवः तं समं समावहन्तः दानवः, तान् कामदा नवः कः एति" -इति नुतयमदानवः आह ।
निजस्येति- ये गतमदा गतो नष्टो मदोऽहमरो येषां ते निरभिमानाः निजस्य स्वात्मनः नवः स्तोतारः सन्ति। समं साम्यभावसहितं तं निजात्मानं समावहन्तो दधतः। यद्वा समं सार्धं तं समावहन्तो दानवो विक्रान्ता वीरा इति यावत् । सन्तीति शेषः। तान् कामदा कामं ददातीति कामदा क्विबन्तप्रयोगः। नवो नूतनः कः प्रकाशः । एति प्राप्नोति। इतीत्थं नुतयमदानवः यमदानवैर्नुत इति नुतयमदानवः सुरासुरैः नुतो जिनेन्द्रदेव आह जगाद। 'नुः स्तोतरि नुतौ स्त्री च' । 'विक्रान्ते वाच्यवद्दानुर्दानदातरि वाच्यवत्'। 'को ब्रह्मानिलसूर्याग्नियमात्म द्योतबर्हिषु' इति च विश्वलोचनः ।।८९।।
अर्थ- जो निरभिमान हो निज शुद्धात्मा की स्तुति करते हैं तथा उसी को सदा साथ धारण करते हैं वे वीर हैं।उन वीरों को मनोस्थों का पूरक नूतन प्रकाश