________________
प्राप्तस्तथाऽऽर्त्तरौद्राभि धानकुध्यानयोगेन जनो भवे बम्भ्रमीति ततस्तत्पापरूपं ध्यानयुगलं साधुना न कर्तव्यमिति भावः । । ४० ।।
अर्थ- संसार के प्रमुख कारण, पापरूप आर्त और रौद्रध्यान मुझे अच्छे नहीं लगते। सुवर्णमय मृग विवेकी राम के द्वारा कैसे चाहा गया ? ||४०||
[४१]
स्वानुभवैकयोगतः परां वीतरागतां यो गतः । बिभेत्यङ्गवियोगतः किं चलति शुद्धोपयोगतः ? ।।
स्वानुभवैकयोगतः यः परां वीतरागतां गतः, सः किम् अङ्गवियोगतः बिभेति ? शुद्धोपयोगतः चलति ?
स्वान्विति - यो मुनिः स्वानुभवैकयोगतः स्वानुभवस्य य एकोऽद्वितीयो योगः सम्बन्धस्तस्मात्परां श्रेष्ठां वीतरागतां वीतरागपरिणतिं गतः प्राप्तः स किं अङ्गवियोगात् शरीरवियोगाद् बिभेति भीतो भवति, न भवतीत्यर्थः । अपि च शुद्धोपयोगतः कंच विचलितो भवति ? न भवतीत्यर्थः । । ४१ ।।
-
स्वानुभव के अद्वितीय संयोग से वीतरागता को प्राप्त हुआ है वह क्या शरीर के वियोग से डरता है ? और शुद्धोपयोग से विचलित होता है ? अर्थात् नहीं? ।।४१।।
[४२]
यो दूरो निजस्वतश्चरति च दृक्कंजविकास - भास्वतः । स हि परभावनास्वतः कुर्याद् रुचिमज्ञानी स्वतः । ।
दृक्कंजविकासभास्वतः निजस्वतः यः दूरः चरति, अतः स हि अज्ञानी परभावनासु स्वतः रुचिं कुर्यात् ।
य इति- यो मुनिः दृक्कंजविकासभास्वतः दृक् सम्यग्दर्शनमेव कंजं कमलं तस्य विकासे भास्वान् सूर्यस्तथाभूतात् । निजस्वतः निजं स्वकीयं यत्स्वं धनं तस्मात् दूरो विप्रकृष्टः सन् चरति विहरति । यः स्वानुभवशून्य इत्यर्थः । अतो निजस्वरहितत्वात् सहि अज्ञानी सारासारज्ञानरहितः निश्चयेन परभावनासु परेषां परपदार्थानां भावनासु चिन्तनेषु स्वतः स्वस्मात् स्वयमेवेत्यर्थः । रुचिं प्रीतिं कुर्यात् विदध्यात् । 'स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये धनेऽस्त्रियाम्' इति विश्वलोचनः । । ४२ ।।
अर्थ- जो मुनि, सम्यग्दर्शनरूपी कमल को विकसित करने के लिये सूर्यरूप आत्मधन से दूर रहता है इसीलिये वह अज्ञानी परपदार्थों की भावनाओं में स्वयं रुचि करता है ||४२||
(२१)