________________
होते हैं, कषायों से कर्मबन्ध होता है, कर्म से गति होती है, गति से शरीर धारण करना पड़ता है और शरीर में पुनः इन्द्रियां प्रकट होती हैं ।। ६३ ।।
[६४] पूर्वानुवृत्तिस्तु पुनश्चिरेयं, परम्परा वा तरुबीजवृत्तिः । बीजे विदग्धे न तरोः प्रसूति-, दन्तेषु खेषु स्वत्त आत्मसिद्धिः ।।
पूर्वेति पुनर्भूयः । इयमेषा चिरा चिरकालादायाता पूर्वानुवृत्तिः पूर्वानुसारिणी परम्परा तरुबीजवृत्तिर्वा वृक्षबीजवृत्तिरिव वर्तते । यथा तरोर्बीजस्य बीजाच्च तरो: प्रसूति: दृश्यते तथा पूर्वोत्तरयोः कार्यकारणभावसन्ततिरनादिकालात् प्रवर्तते। बीजे विदग्धे भस्मसाद्भूते सति तरोः प्रसूतिः उत्पत्तिर्न भवति । खेषु इन्द्रियेषु दान्तेषु वशीकृतेषु सत्सु आत्मसिद्धिः आत्मोपलब्धिः स्वतः स्वयमेव जायते इति शेषः । । ६४।।
अर्थ - पूर्व पूर्व कारणों का अनुसरण करने वाली यह चिरकालीन परम्परा वृक्ष और बीज के समान है । अर्थात् वृक्ष से बीज होता है और बीज से वृक्ष होता है। बीज के जल जाने पर वृक्ष की उत्पत्ति नहीं होती । इन्द्रियों का दमन होने पर आत्मा की सिद्धि स्वयं हो जाती है ||६४||
[६५] जितेन्द्रियः संयमधारकः स,
ध्याने विलीनः सहजं सदास्तु ।
दुग्धे द्रुतं सा किल शर्करेव, दम्यानि सद्भिः करणानि तस्मात् । ।
जितेन्द्रिय इति - जितेन्द्रियः जितानीन्द्रियाणि येन स वशीकृताक्षः स प्रसिद्धः संयमधारकः संयतः सहजं यथास्यात्तथा सदा सर्वदा ध्याने धर्म्मशुक्लध्याने विलीनः निरतस्तगत इत्यर्थः । अस्तु भवतु । यथा किल सा शर्करा सिता दुग्धे पयसि द्रुतं शीघ्रं किल विलीना भवति तथा। तस्मात् कारणात् सद्भिः साधुभिः करणानि इन्द्रियाणि 'खमिन्द्रियं हृषीकं च श्रौतोऽक्षं करणं विदुः' इति धनंजयः । दम्यानि दमनार्हाणि । जितेन्द्रिय एव सरलतया ध्यानं कर्तुमर्हतीति भावः । । ६५ । ।
अर्थ - इन्द्रियों को जीतने वाला साधु सरलता से ध्यान में उस तरह विलीन रहे
(३१३)