SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ जलेति - यथा येन प्रकारेण मञ्जुलवीचिमाला मनोहरतरङ्गसन्ततिः जलाश्रिता सलिलाश्रिता वर्तते तथा तत् प्रसिद्धं भवनं प्रासादः स्तम्भाश्रितं स्तम्भावलम्बितम् अस्तु । तथा ये ज्ञानादयः ज्ञानप्रभृतयो गुणाः सन्ति तेऽपि विनयाश्रिताः विनयावलम्बिताः स्युः । अन्यथा विनयावलम्बनाभावे ते ज्ञानादयो गुणाः व्यर्थाः स्युः अकार्यकरा भवेयुः । । ६१ । । अर्थ - जिस प्रकार मनोहर तरङ्गों की सन्तति जल के आश्रित है उसी प्रकार वह प्रसिद्ध प्रासाद खम्भों के आश्रित है। इसी प्रकार जो ज्ञानादि गुण हैं वे विनय के आश्रित रहें, अन्यथा वे गुण नहीं हैं । । ६१ ।। [६२] अजेयसेनापि विना न राज्ञा, राजा किरीटेन विना न भातु । न्यूना गुणास्ते विनयेन सर्वे, न भान्तु तस्माद्विनयः सताप्तः ।। ६२।। अजेयेति - अजेयसेनापि अजेयपृतनापि राज्ञा भूपतिना विना न भातु । राजा भूपतिः किरीटेन मुकुटेन विना न भातु । विनयेन विनम्रभावेन न्यूना रहिताः ते गुणा ज्ञानादयो न भान्तु तस्मात् सता साधुपुरुषेण विनयः प्राप्तो मार्दवधर्मोऽङ्गीकृतः । । ६२ । । अर्थ - अजेय सेना भी राजा के विना सुशोभित नहीं होती है, मुकुट के विना राजा सुशोभित नहीं होता और विनय से रहित गुण भी सुशोभित नहीं होते। इसीलिये सत्पुरुषों ने विनय को प्राप्त किया है ।। ६२ ।। [६३] अक्षप्रवृत्तेर्विषयोपलब्धि-, स्ततः कषायाश्च ततोऽस्तु बन्धः । विधेर्गतिः स्याद् गतितोऽङ्गभारोऽप्यक्षाणि तत्र प्रकटीभवन्ति । । " अक्षेति - अक्षप्रवृत्तेरिन्द्रियप्रवृत्तेः विषयोपलब्धिः स्पर्शादिविषयप्राप्तिः, ततः कषायाः क्रोधाद्याः, ततो बन्धः कर्मबन्धः, विधेः कर्मबन्धात् गतिर्नरकादिः, ततः अङ्गभारो देहभार, तत्र देहे च, अक्षाणि इन्द्रियाणि प्रकटीभवन्ति । इन्द्रियवृत्तिरेव दुःखस्य मूलहेतुरस्ति ततोऽसौ परित्याज्येति भावः । । ६३ ।। अर्थ - इन्द्रियों में प्रवृत्ति होने से विषयों की प्राप्ति होती है, उससे कषाय उत्पन्न (३१२)
SR No.002457
Book TitlePanchshati
Original Sutra AuthorN/A
AuthorVidyasagar, Pannalal Sahityacharya
PublisherGyanganga
Publication Year1991
Total Pages370
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy