________________
[२७] प्राप्तो यैरेवैष स्वात्मानुभवो गतरागद्वेषः । ।
तैर्जगति कोऽवशेषः प्राप्तव्योऽत्र ततो विशेषः ।। एष गतरागद्वेषः स्वात्मानुभव: यैः (एष:) प्राप्तः तैः अत्र जगति ततः विशेष: कः प्राप्तव्यः अवशेषः?
प्राप्त इति- एषोऽयं गतरागद्वेषो गतौ रागद्वेषौ यस्मात् स रागद्वेषरहितः स्वानुभव आत्मानुभवो यैरेष महाभागैः प्राप्तो लब्धः। तैरत्र जगति ततः स्वानुभवात् विशेषोऽधिक: कः किंनामधेयः प्राप्तव्यः प्राप्तुं योग्यः। अवशेषोऽवशिष्टः। स्वात्मानुभव एव जगति सर्वतो महानस्तीति भावः ।।२७।।
__ अर्थ- जिन महानुभावों ने रागद्वेष से रहित स्वानुभव को प्राप्त कर लिया, उन्हें इस जगत् में स्वानुभव से अधिक और विशेष बाकी क्या रहा? अर्थात् कुछ नहीं ।।२७।।
[२८] रागादीन् सुधीः पुमान् नैमित्तिका ननियतान् नैतीमान्।
. अनधिगत तत्त्वोऽसुमान् यति तु पर्यायान् परकीयान् ।। सुधीः पुमान् इमान् नैमित्तिकान् अनियतान् रागादीन् न एति। अनधिगततत्त्व: असुमान् तु परकीयान् पर्ययान् याति।
- रागादीनिति- सुधीः शोभना धीर्यस्य स विवेकवान् पुमान् पुरुष: नैमित्तिकान् निमित्तेन चारित्रमोहोदयेन जाताः समुत्पन्नास्तान् नैमित्तिकान् इमान् सम्प्रति अनुभूयमानान् अनियतान् अस्थिरात् रागादीन् रागादिवकारान् न एति न प्राप्नोति । तु किन्तु अनधिगततत्त्व: अनधिगतं तत्त्वं वस्तुस्वरूपं येन तथाभूतः। असुमान् प्राणी परकीयान् परस्येमे परकीयास्तान् निमित्तदृष्ट्यान्यदीयान् पौद्गलिकानिति यावत् पर्यायान् परिणामान् याति प्राप्नोति। निमित्तजन्यत्वाद् रागादयः स्वकीया न सन्ति किन्तु पौद्गलिकचारित्रमोहोदयजनितत्वात् परकीयाः सन्तीति भावः ।।२८।। _अर्थ- ज्ञानी मनुष्य इन नैमित्तिक अस्थिर रागादि को प्राप्त नहीं होता-उन्हें अपना नहीं मानता। परन्तु तत्त्वव्यवस्था को न जानने वाला अज्ञानी प्राणी परकीयपर्यायों को प्राप्त होता है उन्हें अपनी मानता है ||२८||
[२९] बध्यते विधिना विधिः स प्राहेति बोधेकनिधिर्विधिः ।
साधुर्विहितात्मविधिः येनाधिगतो हि विधेर्विधिः ।। येन हि विधेः अधिगतः (एतादृशः) विहितात्मविधिः साधुः (भवति)। स बोधैकनिधिः – “विधिः विधिना बध्यते" इति प्राह ।