________________
अर्थ - जो मनुष्य अक्ष- आत्मसम्बन्धी कार्यो में सुख मानते हैं वे इस संसार में हितकारी हैं। पापी मनुष्यों के लिये धर्म अहितकारी जान पड़ता है। उचित है- कर्मरूपी रोग से युक्त मनुष्य के लिये रोग होने पर पथ्य- हितकारी वस्तु अच्छी नहीं लगती, यह जो लोकप्रसिद्धि है, वह सत्य ही है || ६ ||
[७] धनी तु मानाय धनं ददाति, 'धनाय मानाय धियं तु धीमान् । प्रायः प्रभावोऽस्तु कले: किलायं, दूरोsस्तु धर्मो नियमाच्च ताभ्याम् ।।
धनीति - धनी धनवान् जनो मानायाहंकाराय सन्मानं प्राप्तुं वा धनं वित्तं ददाति वितरति । धीमान् सुधीस्तु धनाय वित्तप्राप्तये मानाय सत्कारं प्राप्तुं वा धियं स्वकीयां बुद्धिं ददाति व्याख्यानादिना तदुपयोगं विदधाति । प्रायः किलायं निश्चयेनायं कले: - पञ्चमकालस्य प्रभावो महिमास्तु नियमात् नियमेन ताभ्यां तथोक्त धनिविद्वद्भ्याम् धर्मो दूरोsस्तु दूरस्थोऽस्तु । ये मानाय धनं ददति ये च धनाय मानाय च व्याख्यानादिकं कुर्वन्ति ते परमार्थतो दूरस्थाः सन्ति । ये केचिदुपकर्तुमनसः कुर्वन्ति ते विरलाः सन्तीति प्राय: पदेन सूच्यते, तु शब्दः पूर्त्यर्थः । । ७ । ।
अर्थ - धनी मनुष्य अहंकार अथवा सम्मान के लिये धन देते हैं और विद्वान् धन तथा सम्मान पाने के लिये अपनी बुद्धि का उपयोग करते हैं, यह प्रायः कलिकाल का प्रभाव है। परमार्थतः धर्म उन दोनों से दूर है ||७||
[८]
व्रतं विदग्धं व्रतिनां धियां वा, लोभार्चिषा सारविधातृ पूतम् । बाह्येन शेषं नहि चान्तरेण,
गजेन भुक्तं तु कपित्थवत् तत्
व्रतमिति - व्रतिनां व्रतधारिणां धियां वा सुधियां वा सारविधातृ न्यायकर्तृ पूतं पवित्रं व्रतं लोभार्चिषा लोभानलेन विदग्धं विशेषेण दग्धं सत् बाह्येन बाह्यांचारमात्रेण शेषं भवति अन्तरेण न हि च । बाह्याकारेण शिष्यते नत्वाभ्यन्तर-विशुद्धया । जेन हस्तिना भुक्तं निगलितं कपित्थं दधिफलं तद्वत् भवति । तत् व्रतं । यथा गजेन भुक्त कपित्थफलमाकृतिमात्रेण विद्यतेऽ ऽन्तस्तु सारहीनं भवति तथा लोभिनां व्रतिनां सुधियां च (२८६)
·