________________
अर्थ - महार्घ और मलिन नवीन वस्त्र नीरस्पर्शी नहीं होता । विद्वान् भी यदि गुरुओं के उपदेशामृत सम्बन्धी राग से रहित है तो वह भी यथार्थतः शास्त्रों से अपनी आजीविका ही चलाता है विद्वत्ता के फल से रहित है ||२||
[३] शरीरसम्बन्धिकुलादियोगान्मुनेर्मुनित्वं न मलत्वमेतु । वर्णेन कृष्णास्तु भवन्तु गावः, कदापि कृष्णं न तु तत्पयोऽस्तु ।।
शरीरेति शरीरसम्बन्धिकुलादियोगात् शरीरसम्बन्धिनां शरीराश्रितानां कुलादीनां गोत्रप्रभृतीनां योगात् सम्बन्धात् मुनेः साधोः साधुत्वं मलत्वं मालिन्यं नैतु न प्राप्नोतु । तदेवोदाहियते - गावो धेनवो वर्णेन रूपेण कृष्णाः श्यामवर्णा भवन्तु तु सन्तु नाम किन्तु तत्पयः तासां गवां पयः क्षीरं कृष्णं कृष्णवर्णं कदापि जात्वपि नास्तु न भवतु । यथा शरीरवर्णेन गवां दुग्धं तद्वर्णं न भवति तथा शरीरस्य कुलादिना मुनीनां मुनित्वं न यत इति भाव: ।।३॥
-
अर्थ - शरीर सम्बन्धी कुल - गोत्रादि के योग से मुनि का मुनिपना मलिनता को प्राप्त न हो । जैसे गायें वर्ण से काली भले ही हों पर उनका दूध काला नहीं होता || ३ ||
[४] वाञ्छन्ति सन्धिं न यमेन सार्ध - मक्षार्थमुग्धा वयसैव वृद्धाः । विद्धि ध्रुवं तैरश्चरणेन पुष्टे, शैथिल्यभावाश्चरणे विशन्ति ।।
वाच्छन्तीति - अक्षार्थमुग्धा अक्षाणामिन्द्रियाणामर्थेषु मुग्धाः कृतमोहा ये नरा यमेन चारित्रेण सार्धं सह सन्धिं मेलनं न वाच्छन्ति नाभिलषन्ति ते वयसैव अवस्थामात्रेण वृद्धाः प्रवयसः सन्ति न तु ज्ञानेन संयमेन वा । चरणे चारित्रे शैथिल्यभावाः शैथिल्यस्य भावः सद्भावो येषु ते प्रमादिनो नराः तैरश्चरणे तिरश्चरणानामिदं तैरश्चरणं तेन तिर्यक्त्वेन पुष्टे चरणे गोत्रे 'चरणोऽस्त्री बह्वृचादौ मूलेऽपि पदगोत्रयो:' इति विश्वलोचनः । ध्रुवं निश्चयेन विशन्ति प्रवेशं कुर्वन्तीति विद्धि जानीहि । । ४ । ।
अर्थ - इन्द्रियविषयों में आसक्त रहने वाले जो मनुष्य संयम से सन्धि नहीं करते हैं वे अवस्था से वृद्ध हैं, ज्ञान और संयम से नहीं । चारित्र में शिथिलता रखने वाले ऐसे
२८४)