________________
[१] वैराग्यमूर्तिः प्रणतिं सुनीता, चिदेकभूतिश्च शिवप्रसूतिः। विरच्यतेऽदः शतकं सुनीते
रीतेरभावोऽस्तु ततो धरायाम् ।। __ वैराग्येति - वैराग्यस्य मूर्तिः वैराग्यप्रतिमा, शिवप्रसूतिः शिवस्य श्रेयसो मोक्षस्य वा प्रसूतिः समुत्पत्तिर्यस्याः सा, चिदेकभूतिश्च चिदेव चैतन्यमेवैकाद्वितीयाभूतिः सम्पत्तिर्यस्य तथाभूतो जिनेन्द्रः प्रणतिं नमस्कृतिं सुनीता प्रापिता। वीतरागं सर्व मोक्षप्रदायकं जिनं नमाम्यहमिति भावः। प्रतिज्ञा वक्तुमाह - सुनीतेः शोभननीतेः शतकं शतश्लोकप्रमाणकं प्रकरणम्, अद: एतद् विरच्यते निर्मीयते मयेति शेषः। ततः सुनीतिशतकाद्. धरायां । वसुधायाम् ईतेरतिवृष्टयादेः अभावोऽस्तु। 'अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः।' उपजाति वृत्तम्।।१।।
अर्थ - वीतराग, सर्वज्ञ और मोक्षमार्गोपदेशी-अर्हन्त परमेष्ठी को नमस्कार कर यह सुनीतिशतक रचा जा रहा है। इससे पृथिवी पर ईतियों का अभाव हो।।१।।
[२] मूल्येन पुष्टं च मलेन जुष्टं, . नवीनवस्त्रं न हि नीरपायि। गुरूपदेशामृतरागहीनः,
शास्त्रोपजीवी खलु धीधरोऽपि।। मूल्येनेति - मूल्येन पुष्टं महाघ मलेन मलीमसेन जुष्टं सहितं नवीनवस्त्रं नूतनवस्त्रं नीरपायि जलस्पर्शि नहि भवति! गुरूपदेशामृतरागहीनः गुरूपदेश एवामृतं पीयूषं तस्य रागेण प्रेम्णा हीनो धीधरोऽपि विद्वानपि खलु निश्चये न शास्त्रोपजीवी शास्त्रैस्तेषां पठनपाठनप्रकाशनादिभिः जीवतीत्येवं शीलोऽस्तीति शेषः। यथा मलिनं महाघु वस्त्रं न शोभते तथा गुरूपदेशामृतरागहीनो विद्वान् न शोभते इति भावः ।।२।।
(२८३)