________________
मयूरो नीलकण्ठःतत्प्रसिद्ध अमलं विमलं महस्तेजोरूपं अनघज्ञानघनौघं अनघं निष्पापं ज्ञानमेव घनौघं मेघसमूहं उदीक्ष्य समवलोक्य मुदा प्रमोदेन सह सार्धं मुहुः ध्वनि करोमि नृत्यामि वा। यथा गगने गर्जन्तं घनाघनं समुद्वीक्ष्य केकी केका कुर्वाणो हर्षेण नृत्यति तथाहं समवसरणस्थितजिनेन्द्रस्य केवलज्ञानवैभवमुन्नयनो विलोक्य प्रमुदितो मुहुर्मुह: स्तवनं विदधानो नृत्यामीति भावः ।।२२।।
अर्थ- मायाचार आदि विकारीभावों को न धारण करने वाला मैं मयूर, उस प्रसिद्ध तेजोमय निष्कलङ्क ज्ञानरूप मेघसमूह को देखकर हर्ष के साथ स्तवन करता हूँ अथवा नृत्य करता हूँ ||२२।।
[२३] सद्वृविद्भ्यां मित्रं युक्तं व्यक्तमात्मनश्च चरित्रम् ।।
सुखं ददाति विचित्रं तीर्थं त्वं धारय पवित्रम् ।। सदृग् विद्भ्यां युक्तं, व्यक्तं यत् विचित्रं सुखं ददाति, तीर्थं पवित्रं मित्रं (एतादृशं) आत्मनः चरित्रं त्वं धारय।
. सदिति- सद्वृविद्भ्यां सम्यग्दर्शनज्ञानाभ्यां युक्तं सहितं व्यक्तं प्रकटितं यद विचित्रं विविधमाश्चर्यकरं वा स्वर्गापवर्गसमुद्भूतं सुखं ददाति। पवित्रं निर्दोषं निश्छलं मित्रं हितकरं तीर्थं तीर्थस्वरूपं संसारसिन्धुसंतरणघट्टस्वरूपमिति यावत्। आत्मनो न तु देहस्यैव चरित्रं धारय स्वीकुरु सम्यग्दर्शनज्ञानसहितं सम्यक्चारित्रमात्मनः पवित्रं मित्रमस्ति । अतः हे श्रमण! तदेव स्वीकुर्विति भावः ।।२३।।
___ अर्थ- सम्यग्दर्शन और सम्यग्ज्ञान से युक्त प्रकट हुआ जो विविध सुख को देता है, मित्र तथा तीर्थ स्वरूप उस आत्मचारित्र-निश्चयचारित्र को हे श्रमण ! धारण करो ||२३।।
[२४] यः स्वकमनुभवति स तां लभतेऽसुलभां श्रियमिति मतं सताम्।
येहानन्यसदृशतां समावहति शुचिं विलासताम् ।। यः स्वकम् अनुभवति, स तां असुलभां पियं लभते, या (श्रीः) इह अनन्यसदृशतां शुचिं विलासतां (च) समावहति--इति सतां मतम् ।।
य इति- यो मुनिः स्वकं स्वस्य क आत्मा तं अनुभवति तत्रैव रमत इति यावत्। स तां तादृशीं असुलभां दुर्लभां श्रियमनन्तचतुष्टयरूपश्रियं लक्ष्मी लभते प्राप्नोति, या श्रीः इह लोके अनन्यसदृशताम् अन्योपमारहितां शुचिं पवित्रतां विलासतां शोभां च समावहति दधाति । इतीत्थं सतां साधूनां मतमस्तीति शेषः ।।२४।।
(१३)