________________
य इति- यो मुनिः विबोधबलेन सम्यग्ज्ञानबलेन परसमयं परपदार्थं विहाय त्यक्त्वा स्वसमयं स्वशुद्धात्मानं समयति सम्यक्प्रकारेण प्राप्नोति तमनुभवतीति यावत् । तस्य प्रतिसमयं प्रतिक्षणं आस्रवारिरात्रवविरोधी अयं संवरः कर्मागमननिरोधः स्वयं स्वतः अस्तु भवतु । परसमयप्रवृत्तिरेवास्रवः स्वसमयप्रवृत्तिरेव संवरो भवतीति भावः । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । । १८ ।।
अर्थ- हे भगवान्! जो विज्ञान के बल से परसमय- परपदार्थों को छोड़कर स्वसमय-निज शुद्ध आत्मा को प्राप्त होता है, उसी का अनुभव करता है, उसके प्रत्येक समय-क्षण क्षण में आस्रव का विरोधी संवर स्वयं प्राप्त होता है । ।। १८ ।।
[१९] व्रतिनो न शल्यत्रयं कलयन्तु किलाऽखिलारत्नत्रयम् । शुद्धं स्पृशन्त्वत्र यं निजात्मानं स्तुतजगत्त्रयम् ।।
-अखिलाः व्रतिनः किल रत्नत्रयं कलयन्तु न शल्यत्रयम् । यं स्तुतजगत्त्रयं शुद्धं निजात्मानम् अत्र स्पृशन्तु ।
व्रतिन इति- अखिलाः सर्वे व्रतिनो व्रतवन्तः । किल निश्चयेन रत्नत्रयं सम्यग्दर्शन - ज्ञानचारित्ररूपं कलयन्तु प्राप्नुवन्तु । शल्यत्रयं मायामिथ्यात्वनिदानरूपं न कलयन्तु। किञ्च, अत्र जगति शुद्धं निर्विकारं, स्तुतजगत्त्रयं स्तुतं जगत्त्रयेणेति स्तुतजगत्त्रयं त्रिलोकवन्द्यमित्यर्थः निजात्मानं स्वात्मानं स्पृशन्तु समनुभवन्तु रत्नत्रयरूपलक्षणेन लक्ष्यभूतं निजात्मानमनुभवन्त्विति भावः । । १९ । ।
अर्थ- समस्त व्रती मनुष्य यथार्थ में रत्नत्रय को प्राप्त हों - सम्यग्दर्शन, सम्यग्ज्ञान औरं सम्यक्चारित्र को प्राप्त करने का प्रयत्न करें। माया, मिथ्यात्व और निदानरूप शल्य को प्राप्त न हों। साथ ही, उस रत्नत्रय रूप लक्षण से जगत्त्रय के द्वारा स्तुत निजशुद्ध आत्मा का स्पर्श - अनुभव करें ।। १९ ।।
[२०]
अधिगतोचितानुचितः स्वचिन्तनवशीकृतचञ्चलचित्तः । शिवपथपथिकः कश्चित् पदं कुपथं नयति किं क्वचित् ? ।। कश्चित् अधिगतोचितानुचितः स्वचिन्तनवशीकृतचञ्चलचित्तः शिवपथपथिकः किं क्वचित् कुपथं पदं नयति ?
अधीति- अधिगतोचितानुचितः उचितं च अनुचितं चेत्युचितानुचिते अधिगते ज्ञाते उचितानुचिते येन स योग्यायोग्यविचारचतुर । स्वचिन्तनवशीकृतचञ्चलचित्तः
(११)