________________
[१६] यो हीन्द्रियाणि जयति विश्वयत्नेन स जायते यतिः ।
मुनिरयं तं कलयति शुद्धात्मानं च ततोऽयति ।। यः इन्द्रियाणि विश्वयत्नेन जयति, स यतिः जायते। अयं मुनिः तं कलयति, ततः शुद्धात्मानं च अयति।
___य इति- यो हि निश्चयेन विश्वयत्लेन सम्पूर्णप्रयत्लेन इन्द्रियाणि स्पर्शनादीनि हृषीकाणि जयति स्ववशीकरोति स इन्द्रियविजेता यतिर्मुनिः जायते। अयमेष मुनिः स्तोता तमिन्द्रियविजयं इन्द्रियविजेतारं यतिं वा कलयति संपादयति प्राप्नोतीति यावत्। ततस्तस्मात् शुद्धात्मानं रागादिविभावरहितमात्मानम् अयति प्रपद्यते ।। १६ ।।
अर्थ- जो पूर्ण यत्न से इन्द्रियों को जीतता है निश्चय से वह यति-साधु है। यह मुनि इन्द्रियविजय अथवा इन्द्रियविजेतापने को प्राप्त होता है। अतः रागादिविकारों से रहित शुद्ध आत्मा को प्राप्त होता है-उस रूप परिणमन करता है। ।।१६।। .
[१७] सुपीतात्मसुधारसः संयमी सुधीर्यश्च सदाऽरसः ।
ऋषे! विषयस्य सरसः किल किं वार्वाञ्छति नरः सः ?।। ऋषे ! यः सुपीतात्मसुधारसः सुधीः संयमी सदा अरसः सः नरः विषयस्य सरसः वार् किल वाच्छति ?
सुपीतेति- ऐ ऋषे! यः सुपीतात्मसुधारसः सुपीतः अनुभूत आत्मैव । सुधारसोऽमृतरसो येन तथाभूतः। संयमी संयत इन्द्रियविजयीत्यर्थः । सुधीः सम्यग्ज्ञानोपेतः । सदा सर्वदा अरसो विषयास्वादरहितो वर्तते इति शेषः । स नरो मनुजो विषयस्यपञ्चेन्द्रिय विषयभूतस्पदिः सरसः सरोवरस्य वार्जलं, 'वारिकं पयोऽम्भोऽम्ब पाथोऽर्णः सलिलं जलम्' इति धनञ्जयः । किं वाञ्छति? कांक्षति? नेति यावत्। किलेति वाक्यालङ्कारे ।।१७।।
___अर्थ- हे ऋषे ! जिसने आत्मारूपी अमृतरस का अच्छी तरह पान किया है, जो संयमी है, हिताहित के विवेक से सहित है और सदा विषयास्वाद से विरक्त है, वह मनुष्य विषयरूपी तालाब के जल की क्या इच्छा करता है ? अर्थात् नहीं ।।१७।।
___ [१८] यः समयति स्वसमयं विबोधबलेन विहाय परसमयम् ।
संवरोऽस्तु स्वयमयं तस्यास्रवारिः प्रतिसमयम् ।। . यः विबोधबलेन परसमयं विहाय स्वसमयं समयति, तस्य अयम् आसवारिः संवरः स्वयं प्रतिसमयम् अस्तु ।
(१)