________________
गरलमयीं अविद्यां विहाय मुक्त्वा ज्ञानसागरजां ज्ञानमेव सागरस्तस्मिन् जातं पक्षे ज्ञानसागर इति नामालंकृतो विद्यागुरुस्तस्माज्जाताम् आत्मविद्यां सुधां पीयूषम् एमि प्राप्नोमि । सुकृतजां पुण्योद्भूतां द्यां स्वर्गं नेच्छामि न वाञ्छामि ।।१०।।
अर्थ - मैं निश्चय से विषरूप अविद्या को छोड़कर ज्ञानरूप सागर में समुत्पन्न (पक्ष में ज्ञानसागर गुरु से उत्पन्न) आत्मविद्यारूपी सुधा-अमृत को प्राप्त करता हूं। पृथिवी पर पुण्योदय से प्राप्त स्वर्ग की इच्छा नहीं करता हूं ||१००।।
मङ्गलकामना विभावतः सुदूराणां सन्ततिर्जयतात् तराम् ।
द्यामेत्य पुनरागत्य स्वानुभूतेः शिवं व्रजेत्।।१।। विभावत इति - विभावतो रागादिविकारभावात् सुदूराणाम् अतिदूरवर्तिनां मुनीनां सन्ततिः परम्परा जयतात्तराम् अतिशयेन जययुक्ता भवतु। सा सन्ततिः द्या स्वर्गम्, एत्य प्राप्य पुनः पश्चादागत्य स्वानुभूतेरात्मानुभूतिबलात् शिवं मोक्षं व्रजेत् गच्छेत् ।।१।।
__अर्थ - विकारभाव से अत्यन्त दूर रहने वाले साधुओं की परम्परा अत्यधिक जयवंत रहे। वह स्वर्ग जाकर पश्चात् वहां से आकर स्वानुभूति से मोक्ष को प्राप्त करे।।१।।
साधुता सा पदं ह्येतु भूपतौ च जने जने।
गवि सर्वत्र शान्तिः स्यान्मदीया भावना सदा ।।२।। साधुतेति - हि निश्चयेन सा प्रसिद्धा साधुता सज्जनता भूपतौ राजनि जने जने च प्रत्येक मनुष्ये च पदं स्थानं एतु प्राप्नोतु। गवि पृथिव्यां 'जगती गौर्वसुन्धरा' इति धनंजयः। सर्वत्र सदा च शान्तिः क्षान्तिः स्यादिति मदीया मामकीना भावना वर्तत इति शेषः ।।२।।
___ अर्थ - वह प्रसिद्ध साधुता-सज्जनता राजा और प्रत्येक मनुष्य में स्थान को प्राप्त हो तथा पृथिवी में सर्वत्र शान्ति रहे, सदा ऐसी भावना रहती है ।।२।।
रेपवृत्तिं परित्यज्य ना नवनीतमार्दवम् ।
लाभाय भजेद् भव्यो भक्त्या साकं भृशं सदा ।। ३ ।। रेषेति - भव्यो ना नरः णलाभाय ज्ञानलाभाय 'णकारो निर्णये ज्ञाने' इति
(२६२)