SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ का परित्याग किया है ऐसे दिगम्बर साधु मोक्षमार्ग में जयवन्त रहें।।२८।। [२९] कृतकृपा निजके च्युतवासना, हृततपास्तु विसर्जितवासनाः । समुपयान्तु शिवं ह्यभवं तु ते, धृतपटा मुनयो न भवन्तु ते।। कृतकृपा इति - निजके निज एव निजकस्तस्मिन् अथवा निजस्य स्वस्य क आत्मा निजकस्तस्मिन्। कृतकृपाः कृता विहिता कृपा दया यैस्ते तथाभूताः ‘ममात्मा विषयासक्त्या मलिनो न भवेदिति' विचारसहिता इत्यर्थः। च्युतवासना च्युता त्यक्ता वासना विषयसंस्कारो यैस्ते। हततृपा लज्जारहिताः। विसर्जितवासनाः वसनानां वस्त्राणां समूहो वासनं विसर्जितं त्यक्तं वासनं यैस्ते तथाभूताः। एवंभूता ये सन्ति ते हि निश्चयेन शिवं श्रेयो मोक्षं वा अभवं जन्मराहित्यं समुपयान्तु। ये तु जनाः श्वेताम्बरादयः धृतपटा वस्त्रधारकाः सन्ति ते मुनयो निर्ग्रन्थश्रमणा न भवन्तु। निर्ग्रन्था एव मुनयो. मुक्तिप्राप्त्यर्हाश्च भवन्त्विति भावः।।२९।। . अर्थ - जो निज आत्मा पर दयालु हैं अर्थात् उसे विषय प्रपञ्च से दूर रखते हैं, जिन्होंने विषयों की वासना-संस्कार छोड़ दिये हैं, जो लज्जा से रहित हैं तथा वस्त्र समूह से रहित हैं, वे निश्चय से मोक्ष को तथा जन्माभाव को प्राप्त हों। इनके विपरीत जो वस्त्रधारक हैं वे परमार्थ से मुनि नहीं हैं और मुक्ति एवं जन्माभाव को प्राप्त करने के योग्य नहीं हैं।।२९।।। [३०] जगदिदं द्विविधं खलु चेतनं, यदितरं स्वयमेव विचेतनम्। विविधवस्तुनिकायनिकेतनं, शृणु निरावरणं हि निकेतनम्।। जगदिति - खलु निश्चयेन इदं जगत् द्विविधं चेतनाचेतनभेदेन द्विप्रकारमस्ति। तत्र यच्चेतनं तत् स्वयमेव तथाभूतमस्ति यच्च विचेतनं विगता चेतना यस्य तथाभूतं तत् स्वयमेव तथाभूतं वर्तते। चेतनमचेतनं न भवति, अचेतनं च चेतनं न भवति। एतद् जगद् विविधवस्तुनिकायनिकेतनं विविधानि नानाप्रकाराणि यानि वस्तूनि तेषां निकायस्य समूहस्य निकेतनं स्थानमस्ति। निकेतनं नियतं केतनं लक्षणं यस्य तथाभूतमेतत् जगद् हि निश्चयेन निरावरणमावरणरहितमस्ति। यत्र जगति सकलानि वस्तूनि निरावरणानि सन्ति तत्र मुनिभिरपि निरावरणैर्भवितव्यम्। इति रहस्यं हे भव्य! त्वं शृणु समाकर्णय। 'केतनं लक्षणे गृहे' इति विश्वलोचनः । । ३ ० ।। अर्थ - यह जगत् चेतन अचेतन के भेद से दो प्रकार का है। उनमें जो चेतन (२३०)
SR No.002457
Book TitlePanchshati
Original Sutra AuthorN/A
AuthorVidyasagar, Pannalal Sahityacharya
PublisherGyanganga
Publication Year1991
Total Pages370
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy