SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ अर्थ- जगत्प्रसिद्ध पुनर्जन्म को न चाहता हुआ मैं राजाओं के नम्रीभूत मुकुटमणियों से सुशोभित नखवाले भद्रबाहु श्रुतकेवली को नमस्कार कर पश्चात् पुनर्जन्म से रहित सिद्धपर्याय की इच्छा करता हूं ||२|| [३] प्रणमामि ‘कुन्दकुन्दं' भव्यपद्मबन्धुं धृतवृषकुन्दम् । गतं च समताकुं दं परमं सम्यक्त्वैककुन्दम् ।। भव्यपद्मबन्धुं धृतवृषकुन्दं, समताकुं गतं परमं दं च (गतं ), सम्यक्त्वैककुन्दं 'कुन्दकुन्दं' प्रणमामि | प्रणमामीति- भव्यपद्मबन्धुं भव्या एव पद्मानि कमलानि तेषां बन्धुं प्रहर्षकरं । धृतवृषकुन्दं धृतो वृषस्य कुन्दश्चक्रं येन तं 'कुन्दो माध्ये पुमांश्चक्रे भ्रमौ निधिसुरद्विषो' इति विश्वलोचनः। समताकुं समता साम्यपरिणतिरेव कुः धरित्री तां 'क्षमाधरित्री क्षितिश्च कु:' इति धनञ्जयः । परमं श्रेष्ठं दं च शुद्धिं च गतं प्राप्तं 'दः शुद्धौ देवने दास्तु' इति विश्वलोचनः। सम्यक्त्वैककुन्दं सम्यक्त्वमेव एकोऽद्वितीयः कुन्दो निधिर्यस्य तं । कुन्दकुन्दं तन्नामाचार्यप्रवरं प्रणमामि नमस्करोमि ।।३।। अर्थ- जो भव्य जीवरूपी कमलों के बन्धु हैं - उन्हें हर्षित करने वाले हैं, जिन्होंने धर्मचक्र को धारण किया है, जो समतारूपभूमि तथा श्रेष्ठ पवित्रता को प्राप्त हैं और सम्यग्दर्शन ही जिनकी अद्वितीय निधि है, उन कुन्दकुन्दाचार्य को मैं प्रणाम करता हूँ || ३ || [४] शुचौ स्वपदे शीतकं यो 'ज्ञानाब्धि' सदुपदेशी तकम् । निज-संपदेऽशीतकं यजेऽघशुचिविपदे शीतकम् । । यः सदुपदेशी, तकं शुचौ स्वपदे शीतकम् अशीतकम्, अधशुचिविपदे शीतकं 'ज्ञानाब्धिं' [ज्ञानसागरम्] निजसंपदे यजे । शुचाविति यः सदुपदेशी सत्समीचीनमुपदिशतीत्येवंशील आसीत् । तकं तमेव तकं स्वार्थेऽकच्प्रत्ययः । स्वपदे स्वस्थाने शीतकं सुस्थितं स्वस्य ज्ञायकस्वभावे स्थितमित्यर्थः । ' शीतकः सुस्थिते शीतकालेऽनागतदर्शिनि' इति विश्वलोचन: । अशीतकं अशीतोऽप्रमत्तः क आत्मा यस्य तम् । अघशुचिविपदे अघं पापमेव शुचिविपद् ग्रीष्मर्तुविपत्तिस्तस्यै शीतकं शीतं च तत् कं च जलं चेति शीतकं शिशिरसलिलं ज्ञानाब्धिं ज्ञानसागरनामाचार्यनिजसंपदे स्वकीयसम्पत्त्यै आत्मज्ञानसम्पत्तिलाभाय यजे पूजयामि । 'शुचिः पुंस्युपधाशुद्धमन्त्रिण्याषाढबर्हिषोः । शृङ्गारग्रीष्मयोः श्वेन मेध्यानुपहते त्रिषु' इति विश्वलोचनः। ‘वार्वारिकं पयोऽम्भोऽम्बु' इति धनञ्जयः । । ४ । । (8) 1
SR No.002457
Book TitlePanchshati
Original Sutra AuthorN/A
AuthorVidyasagar, Pannalal Sahityacharya
PublisherGyanganga
Publication Year1991
Total Pages370
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy