SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ [१] श्रीवर्धमान ! माऽय आकलय्य नत-सुराप्तमानमाय ! । विधींश्चामानमाय - मचिरेण कलयामानमाय ! ।। अये श्री वर्धमान ! नतसुर ! आप्तमानमाय ! अमानमाय ! (त्वं) विधीन् अमान् च अचिरेण अमा आकलय्य यं मा (मां) कलय। श्रीति- अये श्रीवर्धमान! हे सन्मते! हे नतसुर! नताः सुरा यस्मै नतसुरस्तत्सम्बुद्धौ । हे आप्तमानमाय! मानं च ज्ञानं च मा च लक्ष्मीश्च यश्च यशश्चेति मानमायाःआप्ताः प्राप्ता मानमाया येन तत्सम्बुद्धौ । 'स्त्रियां स्यान्मा रमायां च'। 'मानं प्रमाणे प्रस्थादौ'। 'यो वातयशसोः पुंसि' इतिच विश्वलोचनः ।हे अमानमाय! मानो गर्वश्च माया छलं चेति मानमाये अविद्यमाने मानमाये यस्य तत्सम्बुद्धौ त्वम् विधीन् कर्माणि अमान् च रोगांश्च । अचिरेण शीघ्रं अमा साकं । आकलय्य नाशयित्वा मा मां अयं -कल्याणं यद्वा यं यशः कलय प्रापय ।।१।। अर्थ- जिनके समक्ष देव नम्रीभूत हैं जिन्हें देव नमस्कार करते हैं, जिन्होंने ज्ञान, लक्ष्मी और यश को प्राप्त किया है तथा जो मान और माया से रहित हैं, ऐसे हे वर्धमान जिनेन्द्र ! मेरे कर्म और जन्म-जरा-मृत्युरूप रोगों को एक साथ शीघ्र ही नष्ट कर मुझे अय-कल्याणरूप अवस्था अथवा सुयश को प्राप्त कराओ ।।१।। " [२] तमनिच्छन् पुनर्भवं नृपनतमुकुटमणिलसित्तपुनर्भवम् । नत्वेच्छे पुनर् भवं भद्रबाहुमहमपुनर्भवम् ।। तं पुनर्भवं अनिच्छन् अहं नृपनतमुकुटमणिलसितपुनर्भवं भद्रबाहुं नत्वा पुनः अपुनर्भवम् भवम् इच्छे । तमिति- तं प्रसिद्धं सर्वजनप्राप्तं पुनर्भवं पुर्नजन्म अनिच्छन् अनभिलषन् अहं स्तोता। नृपनतमुकुटमणिलसितपुनर्भवं नृपाणां चन्द्रगुप्तप्रभृतिनरेन्द्राणां नतानि नम्राणि यानि मुकुटानि मौलयस्तत्र स्थितैर्मणिभी रत्नैर्लसिताः सुशोभिताः पुनर्भवा नखा यस्य तं भद्रबाहुं तन्नामानं श्रुतकेवलिनं नत्वा नमस्कृत्य पुनः पश्चात् नमस्कार-फलस्वरूपं अपुनर्भवं पुनर्जन्मरहितं भवं पर्यायं मुक्तावस्थामिति यावत् इच्छेऽभिलषामि । 'इच्छे' इत्यत्रात्मने पदमार्षम् ।।२।। (३)
SR No.002457
Book TitlePanchshati
Original Sutra AuthorN/A
AuthorVidyasagar, Pannalal Sahityacharya
PublisherGyanganga
Publication Year1991
Total Pages370
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy