________________
हे नुतसम! हे अम! इह नासां आमोदकं विदधानं कुसुमं रसनां मोदकं तृषितं मोदकं उदकं इव (अयं त्यागधर्मः) मा मां) मोदयतु ।
विदधानमिति-हे नुतसम ! नुतः स्तुतः समैः सर्वैरिति नुतसमः तत्सम्बुद्धौ हे नुतसम! हे सर्वजनस्तुत इत्यर्थः । हे अम! न विद्यते मा बन्धनं यस्य सः अमः तत्सम्बुद्धौ हे अम! 'स्त्रियां स्यान्मा रमायां च माक्षेपे मानबन्धयो:' इति विश्वलोचनः । अथवा नतसमाम इति पाठ इह जगति, नासां घ्राणं, आमोदकं आमोद एव आमोदकं सुगन्धं विदधानं कुर्वाणं कुसुमं पुष्पं रसनां जिह्वां मोदकं लड्डुकं, तृषितं पिपासातुरं मोदकं हर्षकरम् उदकमिव सलिलमिव, (अयं त्यागधर्मः) मा माम्, मोदयतु हर्षयतु । यथा सुगन्धोपेतं कुसुमं नासां सुखयति, मोदकं रसनां सुखयति, हर्षकरं सलिलं पिपासातुरं जनं सुखयति तथायं त्यागधर्मो मां सुखयत्विति भावः । । ३६।।
अर्थ- हे नुतसम ! सबके द्वारा स्तुत! हे अम! हे बन्धन से रहित ! जिस प्रकार सुगन्धित पुष्प नासिका को, लड्डू रसना को और पानी प्यासे मनुष्य को प्रमुदित करता है उसी प्रकार यह त्यागधर्म मुझे प्रमुदित करे ||३६||
मोदेऽ
[३७] दऽमुनाहमधुना नासानन्दनेनेवाम्रमधुना ।
लता कोकिलो मधुना नन्दनो जननीस्तनमधुना । ।
नासानन्दनेन आम्रमधुना कोकिलः, जननीस्तनमधुना नन्दनः, मधुना लता इव...अहं अधुना अन (त्यागधर्मेण ) मोदे |
मोद इति- नासानन्दनेन प्राणानन्दकरेण आम्रमधुना रसालपुष्परसेन कोकिलः पिकः, जननीस्तनमधुना मातृस्तनक्षीरेण नन्दनः पुत्रः, मधुना जलेन लता इव वल्लीव, अहम्, अधुना साम्प्रतम्, अमुना एतेन (त्यागधर्मेण ) मोदे हर्षामि । 'मधु पुष्परसे क्षौद्रे मद्यक्षीराप्सु न द्वयो:, इति विश्वलोचनः ।। ३७ ।।
अर्थ- जिस प्रकार प्राण को आनन्द देने वाले आम के मकरन्द से कोयल, माँ के स्तन से निकले दूध से बालक और जल से लता प्रसन्न होती है; उसी प्रकार मैं इस समय इस त्यागधर्म से प्रसन्न हो रहा हूं ||३७||
[३८]
शमयति नान्नं वसुकं ह्यतिघृतयुतमपि गतमधिकं वसुकम् । तथा भवक्षुद्वसुकं श्रुतोनो यियासो स्ववसुकम् । ।
( १६३)