________________
संसारेति - जिना इति शेषः । संसारदेहभोगेभ्यः संसारश्च देहश्च भोगश्चेति संसारदेहभोगास्तेभ्यः संसारशरीरपञ्चेन्द्रियविषयेभ्यः । सतां साधूनां परा सातिशया, भीतिः भयः, भवेत्, यत् यस्मात् इह भवे अस्मिन् जगति, सदा सर्वदा, अघेभ्यः पापेभ्यः अमिता अपरिमिता अनवसानेत्यर्थः, खरा तीक्ष्णा कष्टदायिनीत्यर्थः सा प्रसिद्धा ईति: पीड़ा (भवेत्)'ईतिः स्यादतिवृष्ट्यादिषट्के डिम्बप्रवासयो:' इति विश्वलोचनः । संवेगात् संसारशरीरभोगेभ्यो निर्विण्णता पापेभ्यो विरतिश्च भवतीति भावः । । ३४ । ।
अर्थ- हे भगवन् ! संसार, शरीर और भोगों से सत्पुरुषों को सदा भय रहे, , जिससे इस संसार में पापों से वह अपरिमित एवं सातिशय ईति - पीड़ा ही, पापों से पलायन हो । । ३४ ।।
[३५]
ज्वलतात्र शङ्करेण त्यागो ह्यनाधृतोऽतोऽशङ्करेण । जगत् सुखि शङ्करेण त्रिशूलमहताऽशङ्करेण । ।
हे अशङ्क! अत्र रेण ज्वलता शङ्करेण त्यागः हि अनाधृतः अतः त्रिशूलमहता अशङ्करेण शङ्करेण जगत् सुखि ? ( कदापि नेत्यर्थः ) ।
ज्वलतात्रेति- हे अशङ्क ! हे शङ्कातीत! अत्र जगति, रेण कामाग्निना 'रस्तु कामानले वह्नौ' इति विश्वलोचनः । ज्वलता दह्यमानेन, शङ्करेण शिवेन त्यागः एतन्नाम धर्मः हि यतः अनाधृतः न संधृतः, अतः कारणात् त्रिशूलमहता त्रिशूलेन महान् त्रिशूलमहान् तेन त्रिशूलधारिणा, अशङ्करेण शः धर्मः न शः अशः तं अधर्मं अशङ्करस्तेन अशङ्करेण अधर्मात्मना, शङ्करेण शः हिंसा तं करोति इति शङ्करस्तेन निर्दयिनेत्यर्थः जगत् भुवनं, सुखि ? काकुप्रयोगः कदापि नेत्यर्थः । ' शङ्करः पार्वतीनांथे त्रिषु कल्याणकारिणि' इति विश्वलोचनः । शङ्करस्त्रिशूलधारकत्वात् कल्याणकारी अभयदाता न भवतीति भावः । । ३५ ।।
अर्थ- हे अशङ्क! इस जगत् में कामाग्नि से जलते हुये शिव ने त्यागधर्म का अनादर किया इसलिये त्रिशूलधारी और हिंसाकारी शङ्कर से जगत् सुखी है क्या ? अर्थात् नहीं है ।।३५।।
[३६]
विदधानमामोदकं नासां कुसुममिव रसनां मोदकम् । मोदयतु मा मोदकं तृषितमिह नुतसमामोदकम् ।।
(१६२)