________________
ध्यानवसुविनष्टकुसुमशरं ध्यानमेव वसुरग्निस्तेन विनष्टः कुसुमशरः कामो येन तं, ध्यानाग्निविनष्टकाममिति यावत् 'वसुर्मयूखाग्निधनाधिपेषु' इति विश्वः।। पीतानुभवशरम् पीतम् अनुभव एव शरं नीरं येन तं पीतस्वानुभूतिसलिलम् ‘शरं नीरे नपुंसकम्' इति विश्वलोचनः। त्वां भवन्तम् (अहम्) भवदन्तेवासी विद्यासागरः। यजे पूजयामि । मे मम, अमुं रं कामानलम् ‘रस्तु कामानले वह्नौ' इति विश्वलोचनः। शमय शान्तं कुरु ।।२।।
अर्थ- हे गुरो! हे ज्ञानसागर! हे अनाश! नाश अथवा आशा से रहित! रत्नत्रय रूपहार के धारक, ध्यानरूप अग्नि के द्वारा काम को नष्ट करने वाले और अनुभवरूपी जल का पान करने वाले आपकी मैं पूजा करता हूं। आप मेरी इस कामाग्नि को शान्त कर दीजिए-मुझे निष्काम बनने में सहायक हों ।।२।।
[३] भक्त्येप्सितासवारिर्मोहतमः प्रसारत्वादवारिः ।
धर्मवारिदां वारिमीडेऽनिच्छन् विषयवारि ।। ईप्सितास्रवारिः मोहतमः प्रसारत्वाद् अवारिः (अहम्) विषयवारि अनिच्छन् धर्मवारिदां वारिंभक्त्या
भक्त्येति- ईप्सितास्रवारिः आस्रवस्यारिः शत्रुः आस्रवारिः संवर इत्यर्थः, ईप्सितोऽभिलषित आस्रवस्यारिर्येन सः। मोहतमःप्रसारत्वात् मोह एव तमस्तिमिरं तस्य प्रसारत्वं तस्मात्, अवारि नेत्रविहीनः, ज्ञानचक्षुषा रहित इत्यर्थः (अहम्) विषयवारि विषयजलम्। अनिच्छन् अवाञ्छन् धर्मवारिदां धर्मसलिलप्रदात्रीम्, वारिं सरस्वतीम् 'वारि सरस्वतीदेव्याम्' इति विश्वलोचनः। भक्त्या ईडे स्तौमि ‘वारिक पयोऽम्भोऽम्बु' इति धनञ्जयः ।। ३ ।। ___अर्थ- जो संवर का इच्छुक है तथा मोहरूपी तिमिर का प्रसार होने से नेत्रहीन है, ऐसा मैं विषय रूप जल की इच्छा न करता हुआ धर्मरूप जल को देने वाली सरस्वती की भक्तिपूर्वक स्तुति करता हूँ।।३।।
. विरतोऽकामहानये शतकं कामदं च कामहानये ।
नम्रः कामहानये वदेऽविद्कृतकामहानये ।। 'अये अकामहा! क! नये विरतः, अविद्कृतकामहानये नम्रः (सन्) अमहान् (अहम्) कामदं शतकं च कामहानये वदे ।
(१४६)